________________
कल्पसूत्र ॥१०८॥
ततः कलिकावातश्चक्रवद् भ्रामयति १७, ततो भारसहस्रलोहमयचक्रेणाहतो भूमौ प्रभुराजानुनिमग्नो येन मेरुचूलापि चूर्णीस्यात् १८, ततः प्रभातं विकुळ वक्ति देवायद्यापि तिष्ठसि ? खामी ज्ञानेन रात्रिं वेत्ति १९, देवद्धि दर्शयित्वा च भणति वृणीहि महर्षे! येन तव स्वर्गेण मोक्षेण वा प्रयोजनं, तथाप्यक्षुब्धं देवाङ्गना नाट्यगीतविलासादिभिरुपसर्गयति २०, एवमेकस्यां निशि विंशत्योपसर्गर्न मनागपि क्षोभमुपागमत् भगवान् । अत्र कविः-“वलं जगद्ध्वंसनरक्षणक्षम, कृपा च किं सगमके कृतागसि । इतीव सञ्चिन्त्य विमुच्य मानसं, रुषैव रोषस्तव नाथ ! निर्ययौ ॥ १॥" ततः षण्मासावधिकानेषणीयाहारसम्पादनादिविचित्रोपसर्गान् तत्कृतान् सहमानो भगवान् निरशन एव षण्मास्या स गतो भविष्यतीति विचिन्त्य यावद् ब्रजग्रामगोकुलं गोचर्या प्रविष्टः, तत्रापि तत्कृतामनेपणामवगम्यार्द्धहिण्डित एवागत्य बहिः प्रतिमया स्थितः, स सुरोऽवधिना शुद्धपरिणामं खामिनं ज्ञात्वा द्वितीयदिने | उपशान्तः खामिनं प्रति ब्रूते 'हे आर्य ! ब्रज विहारादौ हिण्ड च गोचर्यादौ नाहं किञ्चित्करोमि' इत्युक्ते 'इच्छया| प्रजामि न वेति नाहं कस्यापि वक्तव्य' इति स्वामिना प्रत्युक्तः, ततो विषण्णः सन् खामिनमभिवन्ध सौधर्म | प्रति चचाल, खामी च तत्रैव गोकुले हिण्डन् वत्सपाल्या स्थविरया परमानेन प्रतिलाभितो वसुधारा च निपति-13 ता। इतश्च कालं तावन्तं, सुराः सौधर्मवासिनः । निरानन्दा निरुत्साहा, उद्विग्नाश्चायतस्थिरे ॥१॥ शक्रोऽपि मुक्तनेपथ्या-जरागोऽत्यन्तदुःखितः। सङ्गीतकादिविमुखो, मनस्येवमचिन्तयत् ॥ २ ॥ इयतामुपसर्गाणां, निमि-| समभवं ह्यहम् । मया खामिप्रशंसायां, कृतायां सोऽकुपत्सुरः ॥३॥ अत्रान्तरे सङ्गमकः, पापपकमलीमसः ।।
॥१०८॥