SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ विदार्य सप्ततिलान् दृष्ट्वा नियतिं गाढीकृतवान् , तत 'आतापनापरस्य सदा षष्ठतपः सनखकुल्माषपिण्डिकया एकेनोष्णोदकचुलुकेन पारयतः षण्मास्या तेजोलेश्योत्पद्यते' इति सिद्धार्थोक्तोपायः (भगवदुक्तोपायः) पृथग्भूतः श्रावस्त्यां || कुम्भकारशालास्थितस्तां साधितवान् , त्यक्तवतश्रीपार्थशिष्यवदात् अष्टानिमित्तं च शिक्षितवान्, ततोऽहंकारेणारं जिनोऽस्मीति सर्वजने प्रख्यापयति स्म, ततो वाणिजग्रामे आतापनापुरस्सरं षष्ठतपसोत्पन्नावधिरानन्दः खामिनमालोक्याहो परीषहसह इति स्तुतिपरोऽचिरेण ते केवलमुत्पत्स्यते इत्याधुक्तवान् । ततः खामी श्रावस्त्यां दशमं वर्षारात्रं चित्रं तपोऽकरोदित्याद्यनुक्रमेण यावत्खामी बहुम्लेच्छां दृढभूमिं गतः तस्यां बहिः पोहालोद्याने पोलासचैत्येऽष्टममक्तेनैकरात्रिकी प्रतिमा तस्थिवान् । इतश्च सभागतः शक्रस्त्रैलोक्यजना अपि वीरचेतश्चालयितुमसमर्था इति प्रशंसा कृतपान्, तदनु शकामर्षेण सामानिकसङ्गमाख्यसुरः सत्त्वरमागत्य प्रथमतो धूलिवृष्टिं चकार, यया पूर्णाक्षिकर्णाऽऽदिश्रोताः खामी निरुच्छ्रासोऽभूत् १, ततो वज्रतुण्डपिपीलिकाभिश्चालनीतुल्यश्चके ताकेन श्रोतसा निर्यान्ति |द्वितीयेन प्रविशन्ति २, तथा वज्रतुण्डोइंशाः ३ तीक्ष्णतुण्डा घृतेल्लिकाः ४, वृश्चिकाः ५, नकुलाः ६, सर्पाः ७, मूषकाश्च ८ भक्षयन्ति, तथा हस्तिनः ९, हस्तिन्यश्च १० शुण्डाघातचरणमईनादिना, पिशाचो अट्टहासादिना ११, व्याम्रो दंष्ट्रानखविदारणादिना १२, सिद्धार्थत्रिशले करुणविलापादिना उपसर्गयन्ति १३, ततः स्कन्धावारसमीपस्थः प्रभोः पदोर्मध्येऽग्निं प्रज्वाल्य स्थालीमुपस्थाप्य च पचति १४, ततश्चाण्डालस्तीक्ष्णतुण्डशकुनिपञ्जराणि प्रभोः कर्णबाहुमूलादिषु लम्बयति ते च मुखैर्भक्षयन्ति १५, ततः खरवातः पर्वतानपि कम्पयन् प्रभुमुरिक्षय पातयति १६,
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy