________________
कल्पसूत्र ० ॥१०७ ।
जितशत्रुपार्श्वोपनीतः सगोशालोऽस्थिकग्रामागते नोत्पलेन मोचितः । ततः पुरिमतालशकटमुखोद्यानयोरन्तराले प्रतिमया तस्थौ, सभार्यो वग्गुरश्रेष्ठी चोद्यानस्थमल्लिजिनजीर्णायतनप्रतिमां नमस्कृतवान्, सन्तानाय नव्यायतनविधापनादिभिरारराध च जाते गर्भेऽन्यदा पूजार्थं प्रजन्नीशानेन्द्रवचसा प्रथमं खामिनमर्चति स्म, ततो मल्लिजिनायतने मल्लिप्रतिमां च । ततः खामी उन्नागसन्निवेशे याति तत्रान्तरे गोशालेन सम्मुखागच्छदन्तुरवधूवरहसनं "ततिलो विहिराया, जणेइ दूरे वि जो जहिं बसइ । जं जस्स हो जुग्गं, तं तस्स विइज्जयं देह ॥ १ ॥ ” चितैः कुट्टयित्वा वंशजाल्यां प्रक्षिप्तः खामिच्छत्र धरत्वान्मुक्तश्च । ततः खामी गोभूमिं याति ततो राजगृहेऽमवर्षामकरोत् चतुर्मासकतपश्च बहिः पारणकं च, ततो वज्रभूम्यां बहुपसर्गा इति कृत्वा नवमवर्षारात्रं स्वामी तत्र कृतवान्, चतुर्विधाहाररहितं चतुर्मासकमपरमासद्वयं च तत्रैव विहृत इति षाण्मासिकं तपोऽभूत्, बसत्यभावाच्च नवमवर्षारात्रमनियतमकार्षीत् । ततः सिद्धार्थपुरं गतः, ततः कूर्म्मप्रामं प्रस्थितः तत्रान्तरा तिलस्तम्भं दृष्ट्वा भगवन्नयं निष्पत्स्यते न वेति | मसलिर्बभाषे प्रश्नानन्तरं 'सप्तापि तिलपुष्पजीवा सृत्वा एकस्यां शम्यां तिला भविष्यन्ति' इति भगवद्वचनान्यथाकुतिथिया तिलस्तम्भमुत्पाट्य मूलादुन्मूल्यैकान्ते मुमोच मा प्रभुवचोऽन्यथा भूदिति सन्निहितव्यन्तरैर्दृष्टिवके गोखुरेण च क्लिन्नभूमौ नित्यस्थिरीचक्रे, ततः प्रभुः कूर्मप्रामे आतापनाग्रहणे मुत्कल मुक्कजटा मध्ययुका बाहुल्य दर्श| नाद्यूकाशय्या तरेति कथनरुष्टवैश्यायनमुक्ततेजोलेश्यातः शीतलेश्यया गोशालं रक्षितपूर्वी सिद्धार्थपुरे ब्रजन् गोशालेन 'स तिलस्तम्भो न निष्पन्न' इत्युक्ते 'स एष तिलस्तम्भो निष्पन्न' इति प्रत्याह, गोशालोऽश्रद्दवत् तिलशस्त्रां
किरणाय●
11201911