SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ PASAHA ॐॐॐ |नामाचार्यः प्रतिमास्थितश्चौरभ्रान्त्याऽऽरक्षकपुत्रेण भल्या हतो जातावधिः स्वर्गमलञ्चकार, शेषं च मङ्खलिवचनादि मुनिचन्द्रवत् । ततः खामी कूपिकसन्निवेशं गतः, तत्र चारिकशकया गृहीतो भगवान् पार्थान्तेवासिनीभ्यां प्रवाजकीभूतविजयाप्रगल्भाभ्यां मोचितः । पृथग्भूतश्च खामिनो मङ्खलिरन्यस्मिन् पथि गच्छन् पञ्चशतैरपि स्तेनैहीतो मातुल इति कृत्वा वाहनया खिन्नोऽचिन्तयत् वरं खामिनैव सार्दू गयनमिति खामिनं मार्गयितुं लग्नः । खाम्यपि वैशाल्यां गत्वाऽयस्कारशालायां प्रतिमया स्थितः, तत्रैकोऽयस्कारः षण्मासं यावद्रोगी भूत्वाऽरोगः सन्नुपकरणकरः शालामागतः स्वामिनं निरीक्ष्यामङ्गलमिति विचिन्स घनेन हन्तुमुद्यतोऽवधिना ज्ञात्वाऽऽगत्य तेनैव हतो मघवता। ततः स्वामी ग्रामाकसन्निवेशं गतः, तत्रोद्याने विभेलकयक्षो महिमा चक्रे । ततः शालिशीर्षे ग्रामे उद्याने प्रतिमास्थस्य स्वामिनो माघमासे त्रिपृष्ठभवापमानितान्तःपुरी मृत्वा व्यन्तरीभूता तापसीरूपं कृत्वा जलभृतजटाभिरन्यासद्यमुपसर्गमुपशान्ता च स्तुतिं चक्रे, तद्वेदनमधिसहमानस्य षष्ठेन तपसा विशुद्ध्यमानस्य लोकावधिरुत्पन्नः। ततः खामी भद्रिकां गतः, तत्र षष्ठवर्षासु चतुर्मासतपो विचित्रांश्चाभिग्रहानकरोत् , तत्र पुनः षण्मासान्ते मङ्खलिर्मिलितः । ततः खामी बहिः पारयित्वा ऋतुबद्धे मगधायां निरुपसर्गो विहृतवान् । ततः आलभिकायां सप्तमवर्षासु चतुमास-14 क्षपणेन बहिः पारयित्वा कुण्डगसन्निवेशे वासुदेवदेवकुले खामी प्रतिमया स्थितः, मजलिरपि वासुदेवप्रतिमायाः पराङ्मुखोऽधिष्ठानं मुखे कृत्वा तस्थौ, कुट्टितश्च लोकैः। ततो महनग्रामे बलदेवदेवकुले कोणे खामी प्रतिमया स्थितः, मललिबलदेवमुखमूले मेहनं कृत्वा तस्थौ, द्वयोरपि स्थानयोर्मुनिरिति कृत्वा मुक्तः। ततो लोहार्गले जनेन चारिकबुद्ध्या : R ASHTRA
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy