________________
कल्पसूत्र०
किरणाव
॥१०६॥
द्वारं चक्रे, आगतेन सिद्धार्थोक्ताप्रत्यये पायसवमने कृते नखवालादि दृष्ट्वा रुष्टेन तद् गृहं गवेषयताऽपि न दृष्ट, ततः खामितपसा पाटकोऽपि ज्वालितः । ततः खामी बहिहरिद्रसन्निवेशात् हरिद्रवृक्षस्याघोऽवतस्थे प्रतिमया, पथिकप्रज्वालिताग्निना प्रभोरनपसारणात्पादौ दग्धौ, गोशालो नष्टः । ततः खामी नङ्गलाग्रामे वासुदेवगृहे प्रतिमया स्थितः, तत्र गोशालो डिम्भमापनायाक्षिकर्षणमकार्षीत् , तत्पित्रादिभिः कुहितो मुनिपिशाच इत्युपेक्षितः । ततः स्वामी आवर्तमामे बलदेवगृहे प्रतिमया स्थितः, तत्र गोशालेन डिम्भमापनाय मुखत्रासो विहितः, तत्पित्रादीन् अथिलोऽयं किमनेन हतेनास्य खाम्येव हन्यते इति विचिन्त्य स्वामिहननायोधतान् दृष्ट्वा बलदेवमूर्तिरेव बाहुना लाङ्गलमुत्पाट्योत्तस्थौ, ततः सर्वेऽपि स्वामिनं नतवन्तः। ततः स्वामी चौराकसन्निवेशं जगाम, तत्र मण्डपे भोज्यं पच्यमानं दृष्ट्वा गोशालः पुनः पुनन्यग्भूय वेलां विलोकयति स्म, ततश्चौरशङ्कया हतेन तेन रुष्टेन खामितपस्तेजसा मण्डपध्यापनाऽकारि । ततः खामी कलम्बुकासनिवेशं गतः, तत्र मेघ-कालहस्तिनामानौ द्वौ भ्रातरौ, कालहस्तिना दृष्ट्वोपसर्गितो मेघेनोपलक्ष्य क्षमितः । ततः खामी क्लिष्टकर्मनिर्जरानिमित्तं लाटाविषयं प्राप, तत्र हीलनादयो घोरा उपसा अध्यासिताः। ततः पूर्णकलशाख्येऽनार्यग्रामे खामिनो गच्छतोऽन्तरा द्वौ स्तेनावपशकुन इति विचिन्यासिमुत्पाट्य धावितो ज्ञातवृन्तान्तवज्रिणा वजेणाहतौ । ततः स्वामी भद्रिकापुर्या वर्षासु चातुर्मास्यं तपश्च कृतवान् । ततो बहिः पारयित्वा विहरन् कदलिसमागमग्रामं गतः, तत्र मङ्खलिदधिकूरभोजनं कुर्वन्नतृप्तो जनेन निर्सितः, भगवतश्च प्रतिमा। ततः स्वामी तंबालग्रामं गतः, तत्र पार्थापत्यीयो बहुशियपरिवृतो नन्दिवेग
॥१०६॥