________________
भूरितरान्तेवासिपरिवृतो मुनिचन्द्रमुनिस्तत्रैव कूपनयकुम्भकारशालायां तस्थी, तत्साधूनिरीक्ष्य गोशालः प्राह जा'के यूयं तैरुक्तम्-'निर्ग्रन्थाः' पुनः प्राह-क यूयं क च मे धमाचार्यः' तैरूचे-'यादृशस्त्वं ताशस्त्वद्धर्माचार्योऽपि भविष्यति' ततो रुष्टेनोचे-'मे धर्माचार्यतपसा दयतां युष्मदाश्रयः' तैरप्यूचे- 'नेयं भीतिरस्माकं पश्चात्स आगत्य खामिनः सर्वमुवाच, सिद्धार्थोऽवदत्- 'नैते साधवो दयन्ते' रात्रौ जिनकल्पतुलनां कुर्वाणो मुनिचन्द्रः प्रतिमास्थो मत्तेन कुम्भकारेण चौरभ्रान्त्या व्यापादितः, उत्पेदे चावधिज्ञानं जगाम च खगें, ततो महिमार्थमायातामरकृतोद्योतमालोक्योपाश्रयो दह्यतेऽमीषामित्युवाच खामिनं गोशालः, सिद्धार्थेन यथावत्कथने तत्र गत्वा तच्छिष्यान्निभायातः । ततःखामी चौरायां गतः, तत्र चारिको हेरिकावितिकृत्वा रक्षका अगडे प्रक्षिपन्ति । प्रथमं गोशालः क्षिप्तः प्रभुस्तु नाद्यापि तावता तत्र सोमाजयन्तीनाम्न्यावुत्पलभगिन्यौ संयमाक्षमतया प्रवाजिकीभूते ज्ञात्वा तमुपसर्गमुपशामयतः। ततः प्रभुः पृष्टचम्पायां प्राप्तः, तत्र वर्षाश्चतुर्मासक्षपणेनातिवाय बहिः पार|यित्वा कयङ्गलसन्निवेशं गतः, तत्र दरिद्रस्थविरा नामपाषण्डस्थास्तत्पाटकमध्यस्थदेवकुले खामिनः प्रतिमास्थितस्य माघमासे हिमवर्षे निपतिते दरिद्रस्थविराः समहिलादिपरिग्रहा जागरदिने गायन्ति, दृष्ट्वा गोशालो जहास, पुनः पुनस्तैस्त्रिनिर्वासितः, पुनः खामिशिष्य इति कृत्वा मुक्तः। ततः खामी श्रावस्त्यां गत्वा बहिः प्रतिमया स्थितः,5 तत्र सिद्धार्थोक्तमहामांसभोजनपरिहाराय गोशालो वणिग्गेहेषु भिक्षार्थ भ्रमन् पितृदत्तगृहपतिमार्यया निन्द्रा मृतापत्यप्रखा श्रीभद्रया शिवदत्तनैमित्तिकवाचा स्वापत्यजीवनाय गर्भमांसमिश्रं पायसं भोजितोऽग्निभयाचान्यतो गृहे