________________
कल्पसूत्र ०
॥१०५॥
च्छिष्योऽस्मीति स्वामिनमाह । ततो द्वितीयपारणके पक्वान्नादिना नन्दस्तृतीये सर्वकामगुणितपरमान्नादिना | सुनन्दः खामिनं प्रतिलाभितवान् । ततश्चतुर्थमासक्षपणके कोल्लाकसन्निवेशं स्वामी प्राप्तः, तत्र बहुलनामा द्विजः पायसं दत्तवान् दिव्यानि च । गोशालस्तु तन्त्वाकशालायां खामिनमनुपलभ्यान्तर्बहिश्च राजगृहे गवेषयन् खोपकरणं द्विजेभ्यो दत्त्वा समुखं शिरो मुण्डयित्वा कोल्लाके भगवन्तं दृष्ट्वा त्वत्प्रत्रज्याऽस्तु ममेत्युक्तवान् । ततः खामी सगोशालः सुवर्णखलग्रामं याति, अन्तरा च गोपैर्महास्थाल्यां पायसं पच्यमानमालोक्य गोशालः खामिनं जगाद -'मा गम्यतां भुज्यतेऽत्र' सिद्धार्थेन च तद्भङ्गकथने गोपैः प्रयत्नरक्षिताऽपि पायसस्थाली भग्ना, ततो गोशालेन 'यद् भाव्यं तद् भवत्येव' इति नियतिः स्वीकृता । ततः स्वामी ब्राह्मणग्राममगात्, तत्र नन्दोपनन्द भ्रातृद्वितयसम्बन्धिनौ द्वौ पाटकी, स्वामी नन्दपाटके प्रविष्टः प्रतिलाभितश्च नन्देन, गोशालस्तु उपनन्दगृहे पर्युषितान्नदानादुष्टो यद्यस्ति मे धर्माचार्यस्य तपस्तेजस्तदाऽस्य गृहं दह्यतामिति शशाप, तदनु तद् गृहं ददाह । पश्चात्प्रभुश्चम्पा - यामुपागतः, तत्र द्विमासक्षपणेन वर्षावासमवसत्, चरमद्विमासपारणकं च चम्पाया बहिः कृत्वा कालासन्निवेशं गतः, स्थितश्च शून्यगृहे प्रतिमायां । गोशालेन तु तत्रैव सीहो ग्रामणीपुत्रो विद्युन्मतीदास्या सह क्रीडन् हसितः कुट्टितश्च तेन खामिनमाह - ' अहमेकाक्येव कुट्टितः, यूयं किं न वारयत' सिद्धार्थः प्राह - 'पुनमैवं कुर्याः ततः स्वामी पात्रालके प्राप्तः तस्थिवांश्च शून्यागारे, तत्र स्कन्दः खदास्या दत्तिलकया सममगात्, तत्रापि तथैवाभवत् । ततः स्वामी कुमाराकं सन्निवेशं गत्वा चम्परमणीयोद्याने प्रतिमयाऽस्थात् । इतश्च श्रीपार्श्वशिष्यो
किरणाव०
1120411