________________
4% B
एस पढमो वासारत्तो। ततः खामी मोराकसन्निवेशं गतः, तत्र प्रतिमास्थितस्य वीरस्य सत्काराद्यर्थ सिद्धार्थों जनानामतीतादीनि कथयति । खामिमहिमानं च दृष्ट्वा प्रद्विष्टेनाच्छन्दकेन तृणच्छेदाच्छेदविषये प्रश्ने कृते सिद्धार्थेन न छेत्स्यते इत्युक्ते छेदनोद्यतस्य तस्याङ्गुलीः शक्रश्चिच्छेद, ततो रुष्टः सिद्धार्थो जनान् प्रति चौरोऽयमित्युक्तवान् , यतः कर्मकरस्य वीरघोषस्य दशपलिकं वट्टलकं गृहीत्वा खजूरीवृक्षाधःस्थापितं एकं तावदिदं, द्वितीयमिन्द्रशमण ऊरणकोऽनेन भक्षितस्तदस्थीन्यद्यापि बदर्या अधो दक्षिणोत्कुरुडिकाया तिष्ठन्ति, तृतीयं पुनरवाच्यमलं कथनेन, निर्बन्धे कृते व्रजतास्य भार्या कथयिष्यति नाहं कथयिष्यामीत्युक्ते तैः पृष्टा सोवाच-भगिनीपतिरयं' लजितो विलक्षः खामिनं विजने गत्वाह-'खामिन्नहमत्रैव जीवामि त्वं तु पूज्यः सर्वत्रापि पूज्यसे' ततः खामी श्वेताम्ब्यां बिहरन जनार्यमाणोऽपि कनकखलाख्यतापसाश्रमे चण्डकौशिकसर्पप्रबोधायागात् । स हि प्राग्भवे क्षपकः क्षुल्लकेनावश्यके पारणार्थगमनजातमण्डूकीविराधनालोचनार्थ स्मारितः क्रुधा क्षुल्लकं हन्तुं धावन् स्तम्भ आस्फल्य मृतो ज्योतिष्केषूत्पन्नः, ततथ्युतस्तत्राश्रमे पञ्चशततापसाधिपतिश्चण्डकौशिको बभूव, तत्रापि राजन्यान् खाश्रमफलादिगृहानान् वीक्ष्य परशुहस्तो धावन् अवटे पतितः, परशुविद्धस्तत्रैव चण्डकौशिकतिप्राग्भवनामा दृष्टिविषोऽहिरभूत्। स च प्रभुं प्रतिमास्थं दृष्ट्वा क्रुधा ज्वलन् सूर्य दर्श दर्श त्रिदृग्ज्वालां मुमोच । तासु विफलासु मद्विषाक्रान्तोऽयं पतन् मा मां मृदूनीयादिति दष्ट्वा दष्ट्वाऽपक्रामन् गोक्षीरधवलं भगवद्रक्तं वीक्ष्य 'चण्डकौशिक ! बुद्ध्यख बुद्ध्यख' इति प्रभुवचः श्रुत्वा च जातिस्मृतिमान् प्रभुं त्रिःप्रदक्षिणीकृत्य प्रपन्नानशनो ना(मा)न्यत्र विषभीषणा मे दृष्टिासीदिति तुण्डं
A-CACANCAR
4%AR