SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ सहस्रैः, एवमग्रेऽपि वचनानि वदनानि वा (तैः) अभिष्टुयमानः, हृदयमालासहस्रैः जनसमूहसत्कैः उन्नन्द्यमान- उत्प्राबल्येन समृद्धिमुपनीयमानो जय जीव नन्देत्यादिपर्यालोचनादिति भावः, क्वचित् उन्नइज्जमाणे त्ति तत्रोन्नती क्रियमाण- उन्नतिं प्राप्यमाणः, विच्छिप्पमाणे त्ति मनोरथमालासहस्रैः - एतस्याज्ञाविधायिनो भवाम इत्यादिभिर्जनविकल्पै| र्विशेषेण स्पृश्यमानः, कान्तिरूपगुणैर्हेतुभूतैः प्रार्थ्यमानो भर्तृतया स्वामितया वा स्त्रीपुरुषजनेनाभिलप्यमाणः, दाइजमाणे त्ति दर्श्यमानः पडिच्छमाणे ति प्रतीच्छन्- गृह्णन् समइच्छमाणे समतिक्रामन् - उल्लङ्घयन् तत्र्यादीनां त्रुटितान्तानां प्रागुक्तार्थानां गीते - गीतमध्ये यद्वादितं-वादनं तेन यो रवः शब्दस्तेन मधुरेण-मधुवर्षिणा मनोहरेण-मनोऽभिरामेण जयजयशब्दघोषमिश्रितेन - जयजयशब्दोच्चारणमिश्रितेन मञ्जमञ्जना-न ज्ञायते कोऽपि किमपि जल्पतीति अतिकोमलेन वा घोषेण च लोकानां खरेण च प्रतिबुध्यमानः - सावधानीभवन् कचित् आपडिपुच्छमाणे ति तत्र आप्रतिपृच्छन्प्रश्नयन् प्रणमतां सुखादिवार्त्ता, सर्व्वय- समस्तच्छत्रादिराजचिह्नरूपया, सर्वद्युत्या - आभरणादिसम्बन्धिन्या सर्वयुत्या वा उचितेष्टवस्तुघटनादिरूपया, सर्ववलेन - हस्त्यश्वादिरूपकटकेन, सर्ववाहनेन- करभवेगसर शिविकादिना वाहनेन, सर्वसमुदयेन - पौरादिमेलापकेन सर्वादरेण सर्वोचित्यकरणरूपेण, सर्वविभूत्या सर्वसम्पदा, सर्वविभूषया - समस्त शोभया, सर्वसम्भ्रमेण - प्रमोदकृतौत्सुक्येन, सर्वसङ्गमेन - सर्वस्वजनमेलापकेन, सर्वप्रकृतिभिः अष्टादशनै गमादिनगर्वास्तव्यप्रकृतिभिः, सर्वनाटकैरित्यादि सुगमम्, सर्वतुर्यशब्दानां मीलने यः सङ्गतो निनादो - महाघोषस्तेन, अल्पेष्वपि ऋद्ध्यादिषु सर्वशब्दप्रवृत्तिर्दृष्टा इत्याह-महया इड्डीए इत्यादि प्राग्वत्, एवं क्षत्रियपुरमध्येन भवनपतिसहस्राणि सम -
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy