SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ | सात्म्यापन्नं पालय श्रमणधर्म - क्षान्त्यादिदशलक्षणं, जितविघ्नोऽपि च त्वं हे देव ! वस निवस सिद्धिमध्ये अपि चेति समुच्चये, अत्र सिद्धिशब्देन श्रमणधर्म्मस्य वशीकारस्तस्य मध्यं - लक्षणया प्रकर्षः, तत्र त्वं निरन्तरायं तिष्ठेत्यर्थः, अत एव रागद्वेषमलौ निजहि- निगृहाण तपसा बाह्याभ्यन्तरेण साधकतमेन धृतौ सन्तोषे धैर्ये वा धणिअं - अत्यर्थ बद्धकक्षः सन्, मर्द्दय अष्टकर्म्मशत्रून्, केन कृत्वा ? ध्यानेन तत्रापि आर्त्तरौद्रनिषेधायाह- उत्तमेणं ति उत्तमसा-तमोऽतीतेन शुक्लेन शुक्लाख्येन, अप्रमत्तः - प्रमादरहितः सन् हराहि त्ति गृहाण आराधनावताकां वीरेति भगवदामन्त्रणं त्रैलोक्यमेव रङ्गो - मलाक्षवाटकस्तन्मध्ये, प्राप्नुहि च वितिमिरमनुत्तरं केवलवरज्ञानं, गच्छ च मोक्षं परं पदं जिनवरोपदिष्टेनऋषभादिजिनोक्त (क्तेन मार्गेण - रत्नत्रयलक्षणेन अकुटिलेन - कषायविषयादिकौटिल्य परिहारात् अक्षेपेण मोक्षप्रापकत्वाच्च सरलेन हत्वा परीषहचमूं । जय क्षत्रियवरवृषभ ! जात्यक्षत्रियो हि परचमूं हन्ति । ऋतवो- द्विमासा हेमन्ताद्याः, अयनानि पण्मासानि दक्षिणायनोत्तरायणरूपाणि, अभीतः परीषहोपसर्गेभ्यः, भयभैरवानां - भैरवभयानां क्षान्ति क्षमः - क्षान्त्याक्षमः न त्वसामर्थ्यादिना क्वचित् अभिभविअगामकंटके चि तत्र ग्रामकण्टकान् - इन्द्रियग्रामप्रतिकूलान दुर्वाक्यजल्पनपरादीन् अभिभूय - अपकर्ण्य धर्मे प्रस्तुतसंयमे ते तव अविघ्नं निर्विघ्नता भवतु इतिकट्टु - इत्युच्चार्य जयजयशब्दं प्रयुञ्जते खजना एव ॥ ११४ ॥ तणं समणे भगवं महावीरे नयणमालासहस्सेहिं पिच्छिजमाणे पिच्छिजमाणे, वयणमालासहस्सेहिं अभिथुव्वमाणे अभिथुव्वमाणे, हिययमालासहस्सेहिं उन्नंदिजमाणे उन्नंदिजमाणे,
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy