SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ भूषणाः काश्चित् । प्रक्षालितैकचरणा, एकाजितलोचना अपि च ॥१५॥ काश्चिदपि भोजनादा-वविहितशौचा विचित्रचित्रेण । बाढेकदेशपरिहित-कञ्चक्यः कौतकादीयुः ॥ १६ ॥” तथा भगवति शिबिकारूढे प्रत्रज्यायै गन्तुं प्रवृत्ते तत्प्रथमतया सर्वात्मना रत्नमयान्यष्टौ मङ्गलानि पुरतः क्रमेण प्रस्थितानि, तद्यथा-खस्तिकं १ श्रीवत्सः २ नन्द्यावतः ३ वर्द्धमानकं ४ भद्रासनं ५ कलशो ६ मत्स्ययुग्मं ७ दर्पणश्च ८, ततः क्रमेण पूर्णकलशभृङ्गारचामराणि, ततो महती वैजयन्ती, ततो वैडूर्यदण्डस्थं विमलातपत्रं, ततो मणिकनकमयं सपादपीठं सिंहासनं, ततोऽष्टशतमारोहरहितं वरतुरङ्गाणां, ततोऽष्टशतं वरकुजराणां, ततोऽष्टशतं सघण्टानां सपताकानां सनन्दीघोषाणां अनेकप्रहरणावरणसंभृतानां रथानां, ततोऽष्टशतं वरपुरुषाणां, ततो हयानीकं, ततो गजानीकं, ततो रथानीकं, ततः पदासनीकं, ततो लघुपताकासहस्रमण्डितो योजनसहस्रोच्छ्यो महेन्द्रध्वजः, ततः खङ्गाहाः, कुंतग्रहाः, पीठ-16 फलकग्रहाः, ततो हासकारका नर्मकारकाच, ततः कान्दर्पिकाः जयजयशब्दं प्रयुानाः, तदनन्तरं बहव उग्राः, |भोगाः, राजन्याः, क्षत्रियाः, तलवरा, माण्डबिकाः, कोटुम्बिकाः, श्रेष्ठिनः, सार्थवाहाः, देवाः, देव्यश्च, स्वामिनः पुरतः पृष्ठतः पार्थतो व्यवस्थिताः सम्प्रस्थिताः । तदनन्तरं सदेवमणुआसुराए ति सदेवमनुजासुरया-खर्गमर्त्यपातालवासिन्या पर्षदा-जनसमुदायेन समनुगम्यमान-अनुव्रज्यमानं भगवन्तं अग्रेऽग्रतश्च शाटिकाद्यैः परिवृतं ताभिरिष्टादिविशेषणोपेताभिर्वाग्भिरभिनन्दन्तोऽभिष्टुवन्तश्च प्रक्रमात् कुलमहत्तरादिखजना एवमवादिषुः । तत्र शालिकाः-चन्द- नगर्भशङ्खहस्ता मङ्गलकारिणः शङ्खवादका वा, चाक्रिकाः-चक्रप्रहरणाः कुम्भकारतैलिकादयो वा, लाङ्गलिका-गलाव AAAAAAA-ब
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy