SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे संखियचक्कियलंगलियमुहमंगलियवद्धमाणपूंसमाणघंटियगणेहिं ताहिं इट्टाहिं जाव वग्गूहिं अभिनंदमाणा अभिथुव्वमाणा य एवं वयासी ॥ ११३ ॥ व्याख्या तेणं कालेणमित्यादित एवं वयासीति पर्यन्तम् , तत्र ततः प्रभुर्मार्गशीर्षकृष्णदशम्यां पूर्वदिग्गामिन्यां छायायां पाश्चात्यपौरुष्यां प्रमाणप्राप्तायां अभिनिवृत्तायां-जातायां सुव्रताख्ये दिवसे विजयाख्ये मुहूर्ते हस्तोत्तरानक्षत्रे| कृतषष्ठतपा विशुद्ध्यमानलेश्याकः सर्वाभरणविभूषितःप्रलम्बवनमालः परिहितश्चेतकनकखचितान्तप्रदेशलक्षमूल्यनासानिःश्वासवातवाह्यसुकुमारतरवस्त्रः प्रागुक्तां शिबिकामारुह्य पूर्वाभिमुखं सिंहासने निषीदति । प्रभोदक्षिणतः कुलमह-| तरिका हंसलक्षणं पटशाटकमादाय, वामपार्थे प्रभोरंब धात्री उपकरणमादाय, पृष्ठे च वरतरुणी स्फारशृङ्गारा धवलात-18 पत्रं, ईशानकोणे चैका प्रतिपूर्ण भृङ्गारं, आग्नेयकोणे त्वेका कनकदण्डमणिविचित्रतालवृत्तमादाय भद्रासने निषीदति ।। ततः श्रीनन्दिवर्द्धनादिष्टा हृष्टाः पुरुषा यावच्छिबिकामुत्पाटयन्ति, अत्रान्तरे शक्रः शिबिकाया दाक्षिणात्यामुपरितनी बाहां, ईशानेन्द्र उत्तराहामुपरितनी बाहां, चमरेन्द्रो दाक्षिणात्यामधस्तनी बाहां, बलीन्द्र उत्तराहामधस्तनी प्रवाहां, शेषा भवनपतिव्यन्तरज्योतिष्कवैमानिकेन्द्राश्च यथाऽहं शिविकामुत्पाटयन्ति, ततः शक्रेशानवर्जास्तामुबह न्ति, शक्रेशानौ तु चामराभ्यां वीजयतः । यतः-"सिंहासणे निसन्नं, सकीसाणा य दोहिं पासेहिं । वीयंति
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy