________________
कल्पसूत्र
किरणाव०
॥९५॥
त्तरसहस्रसुवर्णमय १ रूप्यमय २ मणिमय ३ सुवर्णरूप्यमय ४ सुवर्णमणिमय ५ रूप्यमणिमय ६ सुवर्णरूप्यमणिमय ७ मृन्मय ८ कलशादिनिष्क्रमणाभिषेकसामग्री कारयन्ति, ततोऽच्युतेन्द्राद्यैश्चतुःषष्टया सुरेन्द्ररभिषेके कृतेऽच्युताद्याभियोगिकसुरकृताः सौवर्णादिकलशाः श्रीनन्दिवर्द्धनकारितसुवर्णादिकलशेषु दिव्यानुभावतः प्रविष्टास्ततस्तेऽधिकतरं शोभितवन्तः, ततः श्रीनन्दिवर्द्धनः खामिनं पूर्वाभिमुखं निवेश्य देवानीतक्षीरोदसमुद्रादिनीरैः सर्वतीर्थमृत्तिकाभिः सर्वकषायैश्चाभिषेकं करोति । इन्द्राश्च सर्वेऽपि भृङ्गारादर्शादिहस्ता जयजयशब्दं प्रयुञ्जानाः पुरतस्तिष्ठन्ति । ततः“सुरचंदणाणुलित्तो, सुरतरुवरकुसुममालचिंचइओ। सिअवस्थपाउअंगो, जस्स य मुलं सयसहस्सं ॥१॥ भासुरकिरीडमउडो, हारविरायंतकंठवच्छयलो । केऊरकडयमंडिय-भुअदंडो कुंडलाहरणो ॥२॥” ततो नन्दिवर्द्धनादिष्टाः कौटुम्बिकपुरुषाः अनेकस्तम्भशतसन्निविष्टां मणिकनकविचित्रां पञ्चाशद्धनुरायतां पञ्चविंशतिधनुविस्तीर्णा षट्त्रिंशद्धनुरुच्चां च चन्द्रप्रभाभिधां शिबिकामुपस्थापयन्ति, ततो देवा अपि, परं देवानीतशिबिका श्रीनन्दिवर्धनानीतशिबिकायामेव दिव्यानुभावतः प्रविष्टा, ततः सातीव शोभितवती ॥ ११२ ॥
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जेसे हेमंताणं पढमे मासे पढमे पक्खे __ मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमी पक्खेणं पाईणगामिणीए छायाए पोरिसीए
अभिनिविदाए पमाणपत्ताए सुब्बएणं दिवसेणं विजएणं मुहुत्तेणं चंदप्पभाए सीयाए
ॐ5455554554
॥९५॥