________________
पद्योतने एकं तावत्खयमेव समाप्तप्रतिज्ञो विशेषतश्च लोकान्तिकदेवैर्बोधित इति गम्यम् , तृतीयाया अन्यथानुपपत्तेः। लोकान्ते भवा लौकान्तिका ब्रह्मलोकवासिन एकान्तसम्यग्दृष्टयः सारखताद्या निकायभेदान्नवधा, तद्यथा-"सारस्सय १ माइचा २, वह्नी ३ वरुणा य ४ गहतोया य ५। तुसिआ६ अबाबाहा ७, अग्गिचा ८ चेव रिट्ठा य ९॥१॥" एए देवनिकाया, भयवं बोहिंसु जिणवरिंदं तु । सबजगज्जीवहि, भयवं तित्थं पवत्तेहि ॥२॥" यद्यपि खयंबुद्धत्वात्तदुपदेशनिरपेक्षो भगवान्, तथापि ते देवा जीतकल्पिताः जीतं-अवश्यमाचरणीयं कल्पितं-कृतं यैस्ते जीतकल्पिताः, जीतेन वा-ऽवश्यम्भावेन कल्प-इति कर्त्तव्यता जीतकल्पः स एषामस्तीति जीतकल्पिकास्तैर्विभक्तिव्यत्ययात्ते लोकान्तिका देवाः ताहि इटाहिं जाव वग्गूहिं ति प्राग्वत् व्याख्या ताभिर्वाग्भिः अनवरतं भगवन्तं अभिनन्दयन्तः-समृद्धिमन्तमाचक्षाणा गम्भीराभिर्महाध्वनिभिः अपुनरुक्ताभिरिति व्यक्तम् ॥११॥
जय जय नन्दा! जय जय भद्दा! भदं ते जय जय खत्तियवरवसहा! बुज्झाहि भगवं! लोगनाहा! सयलजगजीवहियं पवत्तेहि धम्मतित्थं हिअसुहनिस्सेयसकर सवलोए सव्वजीवाणं भविस्सइ तिकडे जय जय सदं पउंजंति ॥ १११ ॥ व्याख्या-जय जय नंदेत्यादितः सई पउंजंति त्ति पर्यन्तम् , तत्र जयं लभख, सम्भ्रमे द्विवचनं, नन्दति-समृद्धो भवतीति नन्दस्तदामन्त्रणं, दीर्घत्वं तु प्राकृतत्वात् , अथवा जय त्वं जगन्नन्द, एवं जय जय भई ति नवरं भद्रकः