________________
उस्सुक्कमित्यादि उच्छुल्का-मुक्तशुल्का स्थितिपतितां करोतीति सम्बन्धः । शुल्कं-विक्रेतव्यभाण्डं प्रति मण्डपिकायां राजदेयं द्रव्यं, उत्करां-उन्मुक्तकरां करो-गवादीन् प्रति प्रतिवर्षे राजदेयं द्रव्यं, उत्कृष्टां-प्रधानां यद्वा कर्षणं कृष्टं | उन्मुक्तं कृष्टं यस्यां लभ्येऽप्याकर्षणनिषेधात्, अदेयां-विक्रयनिषेधेन केनापि न कस्यापि देयम् , अमेयां-क्रयविक्रयनिषेधात् । अविद्यमानो भटानां-राजाज्ञादायिनां भट्टपुत्रादिनृणां प्रवेशः कुटुम्बिगृहेषु यस्यां अदण्डिमकुदण्डिमं ति दण्डेन निर्वृत्तं दण्डिमं कुदण्डेन निवृत्तं कुदण्डिमं राजद्रव्यं तन्नास्ति यस्या, तत्र दण्डोऽपराधानुसारेण राजग्रामं द्रव्यं, कुदण्डस्तु-कारणिकानां प्रज्ञापराधान्महत्यप्यपराधिनोऽप्यपराधेऽल्पं राजग्राह्यम् , कचित् अदण्डकुदण्डिमं ति पाठः, तत्र दण्डलभ्यं द्रव्यं दण्डः, शेषं प्राग्वत्, अधरिमं ति अविद्यमानं धरिम-धारणीयद्रव्यं ऋणमुत्कलनात् यस्यां। क्वचित् अहरिमं ति केनापि कस्याप्यहरमात्, गणिकाबर-बिलासिनीप्रधानैर्नाटकीय-नाटकप्रतिबद्धपात्रैः कलिता या, कचित् अगणिअवरनाडइजकलिअंति तत्रागणितैः-प्रतिस्थानं सद्भावादसंख्यातैर्वरैः-प्रधानैर्नाटकीयैः, शेषं प्राग्वत् । अनेकतालाचरानुचरिता-प्रेक्षाकारिविशेषासेवितां, अनुडुता-आनुरूप्येण वादनार्थमुरिक्षता अनुद्धता वा-वादनार्थमेव वादकैरपरित्यक्ता मृदङ्गा यस्यां, अम्लानानि माल्यदामानि-पुष्पमाला यस्यां, प्रमुदितो-दृष्टः प्रक्री|डितश्च-क्रीडितुमारब्धः सहपुरजनेन जानपदो-जनपदवासिलोको यस्यां, कचित् पमुइअपक्कीलियजणाभिरामं ति है तत्र प्रमुदितैः प्रक्रीडितैश्च जनैरभिरामां विजयवेजइ इति कचित् , तत्रातिशयेन विजयो विजयविजयः स प्रयोजन