________________
कल्पसूत्र
किरणाव
SHANKS
जुईए महया बलेणं महया वाहणेणं महया समुदएणं महया वरतुडियजमगसमगप्पवाइएणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरजमुइंगदुंदुहिनिग्घोसनाइयरवेणं उस्सुक्क उक्कर उकि; अदिजं अमिजं अभडप्पवेसं अदंडिमकुदण्डिमं अधरिमं गणियावरनाडइजकलियं अणेगतालायराणुचरियं अणुडुयमुइंगं ५०० अमिलायमल्लदामं पमुइयपक्कीलियसपुरजणजाणवयं दसदिवसं ठिइवडियं करेति ॥ १०२ ॥ व्याख्या-तएणं से सिद्धत्थे रायेत्यादितः ठिइवडिअं करेति त्ति पर्यन्तम्, तत्र जाव सम्वारोहेणं इत्यादि, समस्तान्तःपुरैर्यावत्करणात् प्रथमं सबिड्डीए सन्वजुईए इत्यादि, दीक्षाकालपठितं वक्ष्यमाणालापकवृन्दं समग्रं सव्वारोहेणमिति पर्यन्तमत्र ग्राहम् । सर्वपुष्पगन्धवस्त्रमाल्यालङ्कारादिरूपा या विभूषा तया, त्रुटितानां-वादित्राणां यः शब्दो निनादश्च-प्रतिरवः, महत्या ऋझ्या युक्त इति गम्यम् । युक्त्या-उचितेष्टवस्तुघटनया युत्या का मेलेन द्युत्या वाऽऽभरणादीनां, बलेन-सैन्येन, वाहनेन-शिविकावेगसरादिना, समुदयेन-सङ्गताभ्युदयेन परिवारादिसमुदायेन वा, तूर्याणां यमकसमकं-युगपत्प्रवादितं-ध्वनितं तेन, शंख:-कंबुः, पणवो-मृत्पडहः, भेरी-ढक्का, झल्लरीचतुरङ्खलनालिः करटिसरशी वलयाकारा उभयतो नद्धेत्यन्ये, खरमुखी-काहला, हुडुक्का-तिवलितुल्या, मुरजोमईलः, मृदङ्गो-मृत्मयः, दुन्दुभिः-देववाद्य एषां निर्घोषो-महाध्वनिनादितं च-प्रतिशब्दस्तद्रूपो यो रवस्तेन ।