________________
कल्पसूत्र ०
॥ ८५ ॥
'डादिरूपोपलक्षिता बृहत्पटरूपाः, पताकाश्च - तदितररूपास्ताभिर्मण्डितम् । लाइअं छगणादिना भूमौ लेपनं उल्लोइअं | सेटिकादिना कुट्टयादिषु धवलनं ताभ्यां महितमिव - पूजितमिव ते एव वा महितं - पूजनं यत्र, गोशीर्षस्य - चन्दनविशेषस्य, सरसस्य - प्रत्यग्रस्य, रक्तचन्दनस्य - चन्दनविशेषस्यैव, दर्दुरस्य - दर्दुराभिधानाद्रिजातश्रीखण्डस्य, गोशीर्षा| दिभिर्वा दत्ता - न्यस्ताः पञ्चांगुलयस्तला - हस्तका कुय्यादिषु यस्मिन्, दर्दरबहुलेन चपेटारूपेण वा दत्तपञ्चाङ्गुलितलमित्येके । उपचिता - उपनिहिता गृहान्तः कृतचतुष्केषु चन्दनकलशा - माङ्गल्यघटा यत्र । वन्दनघटाः सुकृतास्तोरणानि च प्रतिद्वारं-द्वारस्य द्वारस्य देशभागेषु यत्र । कचित् घडस्थाने घण ति पाठस्तत्र वन्दना - चन्दनमाला घनानि - बहूनि तोरणानि च प्रतिद्वारं यत्र, यद्वा उपचिता- निवेशिताः चन्दनकलशाश्च वन्दनघटाश्च सुकृततोरणानि च द्वारदेशभागं द्वारदेशभागं प्रति यस्मिन् । देशभागश्च देश एव आसक्तो - भूमिलनः उत्सक्तश्च- उपरिलग्नो विपुलो - विस्तीर्णो वृत्तो - वर्चुलो बग्घारिअ त्ति प्रलम्बितः पुष्पगृहाकारो माल्यदाम्नां - पुष्पमालानां कलापः - समूहो यत्र । पञ्चवर्णाः सरसाः सुरभयो ये मुक्ताः - करप्रेरिताः पुष्पपुआस्तैर्य उपचारः- पूजा भूमेस्तेन कलितं । कालेत्यादि प्राग्वत् । नटाःनाटककर्त्तारः, नर्त्तका - ये स्वयं नृत्यन्ति, जल्ला - वरत्रखेलका राज्ञः स्तोत्रपाठका इत्यन्ये, मला नियुद्धप्रतीताः, मौष्टिका - मला एव ये मुष्टिभिः प्रहरन्ति, विडम्बका - विदूषका वेलम्बका वा ये समुखविकारमुत्पुत्योत्लुत्य नृत्यन्ति, कथकाः - सरसकथावक्तारः, पठकाः सूक्तादीनां क्वापि पवगति पाठस्तत्र प्लवका - ये उत्प्लवन्ते झम्पादिभिर्गती -
किरणाव०
॥ ८५ ॥