SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ किरणाप कल्पसूत्र० ॥८३॥ SSA5645 खशक्तितः॥४३॥ कुण्डलक्षोमयुग्मं चो-च्छीर्षे मुक्त्वा हरिय॑धात् । श्रीदामरत्नदामान्य-मुल्लोचे वर्णकन्तुकम् ॥४४॥ द्वात्रिंशद्रत्वरैरूप्य-कोटिवृष्टिं विरच्य सः। बाढमाघोषयामासे-ति सुरैराभियोगिकैः ॥ ४५ ॥ खामिनः खामिमातुश्च, करिष्यत्यशुभं मनः । सप्तधाऽऽयमजरीव, शिरस्तस्य स्फुटिष्यति ॥ ४६ ॥ खाम्यङ्गुष्ठेऽमृतं न्यस्य, खा. मिजन्मोत्सवं सुराः । नन्दीश्वरेऽष्टाह्निकां च, कृत्वा जग्मुर्यथाक्रमम् ॥ १७ ॥ क्रमस्वेचं-जिनजन्मोत्सवानन्तरं बहवो देवा नन्दीश्वरद्वीपे यात्रायै यान्ति, शक्रस्तु जिनगृहं ततः पूर्वदिश्यअनगिरिचैत्ये, तल्लोकपालास्तु क्रमेण चतुर्दिग्वर्तिषु चतुर्यु दधिमुखशिखरिचैत्येषु, शक्रवदीशानोऽपि परमुत्तरस्यां, एतल्लोकपाला अपि प्राग्वत्, चमरवलीन्द्रावपि क्रमेण दक्षिणपश्चिमयोर्दिश्योरित्यादि बोध्यम् । इति देवकृतश्रीमहावीरजन्मोत्सवः॥ एवं च चातुर्निकायिकानेककोटाकोटिदेवदेवीभिर्निर्मीयमाणे जिनजन्मोत्सवे जगति यद्धेतुकं यजातं तदाहओवयंतेहि त्ति अवपतद्भिः-अवतरद्भिः उप्पयंतेहि त्ति उत्पतद्भिः-ऊझे गच्छद्भिः उत्पिञ्जलो-भृशमाकुलः स इवाचरतीति 'क्विपि शतरि च' प्राकृतत्वात् माणादेशे उप्पिंजलमाणेति सिद्धं, तद्भता भूतस्योपमार्थत्वादुपिजलेतीव कहकहग त्ति अव्यक्तवर्णो नादस्तद्भूता चापि हर्षाट्टहासादिना कहकहा रवमयी च हुत्था-अभवत् । कचित् उप्पिंजलमालाभूआ पाठः, तत्र उत्पिालानां भृशमाकुलानां देवादीनां माला-श्रेणिस्तां भूता प्राप्ता । कापि देवुजोए एगालोए देवसन्निवाया उप्पिंजल इत्यादि पाठः, तत्र होत्थ त्ति प्रत्येकं सम्बन्धाद्देवोद्योतोऽभूत्, ॥८॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy