________________
कल्पसूत्र०
किरणाव०
॥८२॥
SASARSHAN
प्रभोरन्तिमदेवस्य, करिष्ये जननोत्सवम् ॥ २१॥ भेतव्यं देवि! तन्नैवे-त्युक्त्वाऽवस्खापिनी ददौ । कृत्वा जिनप्रतिबिम्बं, जिनाम्बासन्निधौ न्यधात् ॥ २२ ॥ भगवन्तं तीर्थकर, गृहीत्वा करसम्पुटे। विचक्रे पञ्चधा रूपं, सर्वश्रेयोऽर्थिकः खयम् ॥ २३ ॥ एको गृहीततीर्थेशः, पार्थ द्वौ चात्तचामरौ । एको गृहीतातपत्र, एको वज्रधरः पुनः ॥ २४ ॥ अग्रगः पृष्ठगं स्तौति पृष्ठस्थोऽप्यनगं पुनः। नेत्रे पश्चात्समीहन्ते, केचनातनाः सुराः ॥ २५ ॥ शक्रः सुमेरुशृङ्गस्थं, गत्वाऽथो पाण्डुकं वनम् । मेरुचूलादक्षिणेना-तिपाण्डुकम्बलासने ॥ २६ ॥ कृत्वोत्सङ्गे जिनं पूर्वा-भिमुखोऽसौ निषीदति । समस्ता अपि देवेन्द्राः, खामिपादान्तमैयरुः ॥ २७ ॥ दश वैमानिका, विंशतिर्भवनपतयः, द्वात्रिंशद्व्यन्तराः, द्वौ ज्योतिष्को, इति चतुःषष्टिरिन्द्राणाम् । सौवर्णा राजता रानाः, स्वर्णरूप्यमया अपि । वर्णरत्नमयाश्चापि, रूप्यरत्नमया अपि ॥ २८ ॥ खर्णरूप्यरत्नमया, अपि मृत्स्नामया अपि । कुम्भाः प्रत्येकमष्टाब्यं, सहस्रं योजनाननाः ॥ २९ ॥ पणवीसजोअणु-गो बारस जोअणा वित्थारो । जोअणमेगं नालुअ, इगकोडी|| |सविलक्खाई ॥३०॥ एवं भृङ्गारदर्पण-रत्नकरण्डकसुप्रतिष्ठकस्थाल-पात्रिका-पुष्पचङ्गेरिकादिपूजोपकरणानि कुम्भवदष्टप्रकाराणि प्रत्येकमष्टोत्तरसहस्रमानानि । तथा मागधादितीर्थानां मृदं जलं च, गङ्गादीनां पद्मानि जलं च, पद्मइदादीनां पद्मानि जलं च, क्षुल्लहिमवर्षधरवैतात्यविजयवक्षस्कारदेवकुरुत्तरकुरुभद्रशालनन्दनवनादीनां सिद्धार्थपुष्पतुम्बरगन्धान् सर्वोषधीश्च जलादि चाभियोगिकसुरैरच्युतेन्द्र आनाययत् । "क्षीरनीरभृतैर्वक्षः-स्थलस्थैत्रिदशा बभुः । संसारौघं तरीतुं किं, धृतकुम्भा इव स्फुटम् ॥ ३१॥ सिञ्चन्त इव भावई, क्षिपन्तो वा निजं मलम् । कलशं
॥८२॥