________________
सप्तानीकाधिपतीना सप्त भद्रासनानि चतुर्दिक्षु प्रत्येकं चतुरशीतिसहस्रात्मरक्षकदेवानां चतुरशीतिसहस्रभद्रासनानि, मध्ये शाकं सिंहासनम् । पुरतोऽग्रमहिष्योऽष्टी, वामे सामानिकाः सुराः । दक्षिणे त्रिसभादेवाः, सप्तानीकानि पृष्ठतः ॥ ७ ॥ अन्यैरपि धनैर्देवै - वृतः सिंहासन स्थितः । गीयमानगुणोऽचाली - दपरेऽप्यमरास्ततः ॥ ८ ॥ देवेन्द्रशासनात्केचित्केचिन्मित्रानुवर्त्तनात् । पत्नीभिः प्रेरिताः केचित् केचिदात्मीयभावतः ॥ ९ ॥ केऽपि कौतुकतः केऽपि, विस्मयात्केऽपि भक्तितः । चेलुरेवं सुराः सर्वे, विविधैर्वाहनैर्युताः ॥ १० ॥ विविधैस्तूर्यनिर्घोषैर्घण्टानां कणितैरपि । कोलाहलेन देवानां शब्दाद्वैतं तदाऽजनि ॥ ११ ॥ सिंहस्थो वक्ति हस्तिस्थं, स्वीयं गजं कुरु । हनिष्यत्यन्यथा नूनं, दुर्द्धरो मम केसरी ॥ १२ ॥ वाजिस्थं कासरारूढो, गरुडस्थो हि सर्पगम् । छागस्थं चित्रकस्थोऽथ, वदन्त्येवं तदादरात् ॥ १३ ॥ सुराणां कोटिकोटीभि र्विमानैर्वाहनैर्घनैः । विस्तीर्णोऽपि नभोमार्गोऽतिसङ्कीर्णोऽभवत्तदा ॥ १४ ॥ मित्रं केऽपि परित्यज्य, दक्षत्वेनाग्रतो ययुः । प्रतीक्षख क्षणं भ्रात - ममत्रेत्यपरेऽवदन् ॥ १५ ॥ केचिद्वदन्ति भो देवाः ! सङ्कीर्णाः पर्ववासराः । भवन्त्येवंविधा नूनं, तस्मान्मौनं विधत्त भोः ॥ १६ ॥ नभस्यागच्छतां तेषां शीर्षे चन्द्रकरैः स्थितैः । शोभन्ते निर्जरास्तत्र, सजरा इव निर्जराः ॥ १७ ॥ मस्तके घटि काकाराः, कण्ठे ग्रैवेयकोपमाः । खेदविन्दुसमा देहे, सुराणां तारका बभुः ॥ १८ ॥ नन्दीश्वरे विमानानि, सहिप्यागात्सुराधिपः । जिनेन्द्रं च जिनाम्बां च त्रिः प्रादक्षिणयेत्ततः ॥ १९ ॥ वंदित्वा नमस्थित्वा चे-त्येवं देवेश्वरोऽवदत् । नमोऽस्तु ते रत्नकुक्षि-धारिके ! विश्वदीपिके ! ॥ २० ॥ अहं शक्रोऽस्मि देवेन्द्रः, कल्पादाद्यादिहागमम् ।