________________
कल्पसूत्र०
|किरणाव
॥१॥
625582655555
तदभावादेव । साधमाश्रित्य तु प्रथमान्तिमतीर्थकृतीर्थे वेतमानायुपेतवस्त्राणां जीर्णप्रायत्वात् ताहराबखधारित्वेऽप्यचेला एवोच्यन्ते वाचंयमाः, न चैतदयुक्तं, तथाविधविशिष्टनेपथ्याभावादचेलकत्वव्यवहारस्य सार्वजनीनत्वात् , नत्रः कुत्सार्थत्वेऽपि युक्तियुक्तत्वाच । यदाह-"जह जलमवगाहतो, बहुचेलो कि सिरखेढियकडिलो। भन्नइ नरो अचेलो, तह मुणओ संतचेलो वि ॥१॥ तह थोवजुण्णकुच्छिअ-चेलेहि वि भण्णाइ अचेलो चि। जह तंतुसालिअ लहुं, दिसु पोत्तिं नग्गिा मो ति ॥२॥" अजितादिद्वाविंशतितीर्थकृतीर्थसाधूनां ऋजुप्रज्ञत्वान्महामूल्याऽनियतवण्णाद्युपेतवस्त्रपरिभोगानुज्ञानात् तादृग्वस्त्रधारित्वेन सचेलकत्वमेव केषाञ्चित्, केषाञ्चितु श्वेतमानाधुपेतनधारित्वेनाचेलकत्वमपीति विकल्पभागेवाचेलक्यं, इत्याचेलक्यकल्पः प्रथमः ॥१॥
तथा "उद्देसि तु कम्मं" इति वचनात्, उद्दिश्य-साधूनङ्गीकृत्य क्रियते यत्तदौदेशिकमिति व्युत्पत्त्याऽऽधाकम्मेंत्यर्थो विवक्षितः, तच्चाऽऽधाकर्मिकं प्रथमचरमतीर्थकृत्तीर्थयोयें कचन मुनिमुद्दिश्य कृतमशनादिकं सर्वेषामपि संयतानामकल्प्यं, यदाह-"संघादुद्देसेणं, ओहाईहिं समणाइअहिगिच । कडमिह सवेसिं चित्र, न कप्पा पुरिमचरिमाणं ॥१॥ति"। सङ्घाघुद्देशेन-सोपाश्रयालम्बनेन, “ओहाइहि ति" सामान्यविशेषाभ्यां, तत्र सङ्घार्थमिति विकल्पः सामान्यं, विशेषस्तु प्रथमजिनसङ्घार्थ चरमजिनसहाथै बेत्यादि विकल्पः । एवमुपाश्रयमाश्रित्यापि । “समणाइअहिगिच ति" श्रमणान् श्रमणीचाधिकृत्येत्यर्थः, द्वाविंशतिजिनतीर्थेषु पुनः सादिकमुद्दिश्याधाकर्म कृतं (तत) तस्यैवाकल्प्यं शेषसाधूनां तु कल्प्यं, यतः-"मज्झिमगाणं तु इम, जंकडमुहिस्स तस्स चेव त्ति । नो कप्पह सेसाणं,