________________
SASARAS
॥ अहम् ॥ । न्यायाम्भोनिधि-श्रीमद्विजयानन्दसूरीश्वरपादपद्मभ्यो नमः । विबुधवरोपाध्यायश्रीमद्धर्मसागरगणिविहितकिरणावल्यभिधानवृत्त्युपेतं
श्रुतकेवलियुगप्रधानभगवच्छ्रीमद्भद्रबाहुखामिप्रणीतं
कल्पसूत्रम्।
ook प्रणम्य प्रणताशेष-वीरं वीरजिनेश्वरम् । खवाचनकृते कुर्वे, कल्पव्याख्यानपद्धतिम् ॥ १ ॥ MI इह हि तावचतुर्मासकमासीना मुनयो मङ्गलनिमित्तं कल्पद्रुकल्पं पर्युषणाकल्पाभिधमध्ययनं पञ्च दिनानि |
वाचयन्ति । तत्र कल्पः-साध्वाचारः, स च दशधा, तद्यथा-"आचेलक्कु १.देसिअ २ सिजायर ३ रायपिंड ४ | |किइकम्मे ५ । वय ६ जिट्ट ७ पडिक्कमणे ८, मासं ९ पजोसवणकप्पे १० ॥१॥" व्याख्या-अविद्यमानं चेलं | वस्त्रं यस्यासावचेलकस्तद्भाव आचेलक्यं, तच तीर्थकरमाश्रित्य चतुर्विशतेरपि, तेषां देवेन्द्रोपनीतदेवदूष्यापगमे
ॐॐ