________________
कल्पसूत्रादीनां, यद्वा तदा वर्मेषस्थत्वात् भगवतश्च मध्यरात्रे जन्मभावात् तदा मकरलग्नं (तत्र) प्रथमाया चान्द्रयां होरायां ॥८॥ 'इंद्वयोः समे' इत्युक्तेः, अन्यथा वा सुधिया वृद्धोपदेशाद् भावनीयम् । सौम्यासु-रजोवृष्टयाधभावात् शान्तासु,
वितिमिरासु-भगवजन्मकाले सार्वत्रिकोद्योतभावात् चन्द्रिकया वा ध्वस्तध्वान्तासु, विशुद्धासु-उल्कापातदिग्दाहावभावात् निर्मलासु, जयोऽस्त्येषु इति जयिकेषु-राजादीनां जयदायिषु सर्वशकुनेपु-काकोलूककपोतक्यादिषु, यद्वा काकानां श्रवणे द्वित्रिचतुःशब्दाः शुभावहाः, प्रदक्षिणश्चासावनुकूलश्च भगवतः प्रदक्षिणवाहित्वादनुकूलः, अथवा प्रदक्षिणः-प्रदक्षिणावर्त्तत्वात्, अनुकूलः-सुरभिशीतत्वात्, भूमिसर्पिणि-मृदुत्वात्, चण्डवातो बुच्चैः सर्पति तादृशे मारुते प्रवातुमारब्धे, निष्पन्ना-निष्पन्नसर्वसस्या मेदिनी यत्र ताशे, काले-ऋतौ, प्रमुदिताः-सुभि-18 क्षसौस्थ्यादिना, प्रक्रीडिताः-वसन्तोत्सवादिना क्रीडितुमारब्धाः, ततो विशेषणकर्मधारयः, जनपदेषु-जनपदवास्तव्यलोकेषु सत्सु, आरोग्या-ऽनावाधा माता आरोग्य-अनाबाधं दारकं प्रजाता-सुषुवे । जनिः सोपसर्गत्वात् सक-| |म्मेकः।-"अचेतना अपि दिशः, प्रसेदमुदिता इव । वायवोऽपि सुखस्पशों, मन्दं मन्दं वचुस्तदा ॥१॥ उद्योतस्त्रिजगत्यासीत् , दध्यान दिवि दुन्दुभिः । नारका अप्यमोदन्त, भूरप्युच्छासमासदत् ॥२॥" ९६ ॥
जं रयणिं च णं समणे भगवं महावीरे जाए सा णं रयणी बहुहिं देवेहिं देवीहि य ओवयंतेहिं उप्पयंतेहि य उपिंजलमाणभूया कहकहगभूया आविहत्था ॥ ९७॥ व्याख्या-जं रयणिं च णमित्यादितो भूया आविहुत्थ त्ति पर्यन्तम् , तत्र यस्यां रात्री भगवान् जातः, सा रजनी बहूहिं देवोहिं देवीहि यत्ति तत्र तीर्थकृतां जन्मनः सूतिकर्मणि शाश्वतजीतकल्पाधिकारिण्यः प्रथमतः षट्पञ्चाश
॥८
॥