SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ फलितो जन्मावध्या - राधितजिनधर्म्म कल्पतरुः ॥ ४ ॥ इत्यादि महाहर्षित - देवीमालोक्य वृद्धललनानाम् । जय जय नन्देत्याद्या- शिषः प्रवृत्ता मुखकजेभ्यः ॥ ५ ॥ कलया प्रवर्त्तितान्यपिं, कुलललनाभिश्च ललितधवलानि । उत्तम्भिताः पताका, मुक्तानां स्वस्तिका न्यस्ताः ॥ ६ ॥ अष्टावष्टौ मङ्गल - कानि समालेखितानि सर्वत्र । सत्पञ्चवर्णपुष्प - प्रकरः परितो भुवि विकीर्णः ॥ ७ ॥ कर्पूरागुरुचन्दन- परिमलनिकरः कृतश्च सर्वत्र । बद्धानि तोरणान्यपि, सुकुङ्कुमस्य च्छटा दत्ताः ॥ ८ ॥ स्थाने स्थाने मङ्गल धवलातोद्यानि गीतनृत्यानि । राजभवनं चतुर्भिर्वर्णैः सङ्कीर्णमपि जज्ञे ॥ ९ ॥ वर्द्धापनाऽऽगताभिः, सुवर्णकोटीभिरपि च सम्पूर्णम् । हट्टश्रेणिषु शोभाः, प्रयोजिता जिनगृहे पूजा ॥ १० ॥ वन्दिजनमोचनानि च रचितान्युद्घोषितोऽप्यमारिवः । सङ्घस्यानघभक्ति-व्यक्तीचक्रे विविधविधिना ॥ ११ ॥ सम्पन्ना दानेन च, राजनराः कल्पतरव इव नव्याः । ऐश्वर्येण च राजा, सुरराज इवात्र सअज्ञे ॥ १२ ॥ दिव्याऽऽभरणविभूत्या, सुरलोक इवात्र सकललोकोऽपि । किं बहुना सर्वेषां परमाऽऽनन्दश्च सम्पन्नः ॥ १३॥” इति । "आस्तन्यपानाज्जननी पशूना-मादारलाभाच्च नराधमानाम् । आगेहकृत्याच्च हि मध्यमाना- माजीवितात्तीर्थमिवोत्तमानाम् ॥ १ ॥” इति । गन्भत्थे चेव त्ति पक्षाधिकमासपट्टे व्यतिक्रान्त इत्यर्थः उक्तञ्च - "तिहिँ नाणेहिँ समग्गो, देवीतिसलाइ सो उ कुच्छिसि । अह वसह सन्निगन्भे, छम्मासे अद्धमासं च ॥ १ ॥ अह सत्तमंमि मासे, गन्भत्थो | चेव अभिग्गहं गिन्हे । नाहं समणो होहं, अम्मापियरम्मि जीवंते ॥ २ ॥” इति ॥ ९४ ॥ तणं सा तिसला खत्तियाणी पहाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता जाव -
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy