________________
कल्पसूत्र०
किरणाव०
॥७७॥
CARSANEER
चिन्तयति-"किं कुर्मः कस्य वा ब्रूमो,' मोहस्स गतिरीशी । दुषेर्धातोरिवास्माकं, दोषनिष्पत्तये गुणः ॥ १॥ प्रमोदाय कृतोऽप्यासी-दयं खेदाय मे गुणः । नालिकेराम्भसि न्यस्तः, कर्पूरो मृतये यथा ॥२॥” इति सञ्चिन्य |श्रीवीरः एकदेशेनाङ्गुल्यादिना एजति, एतच्च यद्भगवता मातुरनुकम्पायै कृतमपि तस्या एवाधृतितया पर्यणंसीत् , तत्त्वागामिनि काले कालस्यैव दोषाद् गुणोऽपि वैगुण्याय कल्प्स्यते इति सूचनार्थमिति वृद्धाः । ततः खगर्भस्य कुशलमवधार्य सहर्षा त्रिशला एवमवादीत् ॥९३॥
नो खलु मे गब्भे हडे, जाव नो गलिए, मे गम्भे पुट्विं नो एयइ, इयाणि एयइ, त्तिकटु हट्टतुट्ठ जाव हयहियया एवं वा विहरइ, तएणं समणे भगवं महावीरे गब्भत्थे चेव इमेयारूवं अभिग्गहं अभिगिन्हइ नो खलु मे कप्पइ अम्मापिऊहिं जीवंतेहिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए ॥ ९४ ॥ व्याख्या-नो खल्वित्यादितः पव्वइत्तए त्ति पर्यन्तम्, तत्र-“प्रोलसितनयनयुगला, स्मेरकपोला प्रफुल्लमुखकमला । विज्ञातगर्भकुशला, रोमाञ्चितकञ्चका त्रिशला ॥१॥ प्रोवाच मधुरवाचा, गर्भे मे विद्यतेऽथ कल्याणम् । हा! घिग्मयकाऽनुचितं, चिन्तितमतिमोहमतिकतया ॥२॥ सन्त्यथ मम भाग्यानि, त्रिभुवनमान्या तथा च धन्याऽहम् ।। श्लाघ्यं च जीवितं मे, कृतार्थतामाप मे जन्म ॥३॥ श्रीजिनपदाः प्रसेदुः, कृताः प्रसादाश्च गोत्रदेवीमिः।
॥ ७७॥