SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ हृतं शरीर येषां । सिद्धार्थाश्च-सर्षपाः, हरितालिका च-दूर्वा, कृता मालनिमित्तं मूर्द्धनि-शिरसि बैंः । खम्बः ख-3 केभ्यः-आत्मीयेभ्य आत्मीयेभ्य इत्यर्थः । भवनवरेषु-हर्येष्ववतंसक इव-शेखरक इव भवनवरावतंसकः तख प्रतिद्वारं-18 मूलद्वारं समीपद्वारं, तत्र एगओ मिलंति ति समुदायीभूय सम्मतीभवन्ति-सर्वसम्मतमेकं पुरस्कृत्यान्ये तदनुयायिनो भवन्तीत्यर्थः, यतः-“यत्र सर्वेऽपि नेतारः, सर्वे पण्डितमानिनः । सर्वे महत्त्वमिच्छन्ति, तदृन्दमवसीदति ॥१॥" दृष्टान्तीभूता च राज्ञो मत्रिपरीक्षितशय्यैकशाय्यवलगकपञ्चशती, तद्यथा-काचित्सुभटानां पञ्चशती परस्परमसम्बद्धा सेवावृत्तिनिमित्तं कस्यचिद्राज्ञः पुरो ययौ, राज्ञा मत्रिणा च परीक्षानिमित्तमेकैव शय्या शयनाय प्रेषिता, ते चाहमिन्द्रत्वमापन्नाः निःखामिकाः परस्परं विवदमानाः सर्वेषामविशेषेण परिभोगो भवत्वित्साशयेन यथार्पिता|मेव शय्यामन्तराले विमुच्य तदभिमुखपादाः शयितवन्तः, प्रातश्च रहःसङ्केति तराजपुरुष राज्ञे यथावयतिकरे निवेदिते || कथमसम्बद्धा एते योद्धारः १ इति विचिन्त्य निर्भर्त्य निष्काशिता इति । खानपाठकाः पुनः- “दीर्घायुभव वृत्तवान् । भव भव श्रीमान् यशस्वी भव, प्रज्ञावान् भव भूरिसत्त्वकरुणादानकशोण्डो भव । भोगाढ्यो भव भाग्यवान् भव महासौभाग्यशाली भव, प्रौढश्रीव कीर्तिमान् भव सदा कोटिम्भरस्त्वं भव ॥१॥” इत्याद्याशीःपुरस्सरं जएणं विजएणं वद्धावेंति त्ति जयेन विजयेन च त्वं वर्द्धखेत्याचक्षत इत्यर्थः, जयविजयौ च प्राग्वद्याख्येयौ ॥ ६७॥ 4520SAGROCE
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy