________________
SEARCH
कर्मधारयः, यद्वा कल्पितहारादिभिः सुकृता शोभा यस्य, पिनद्धानि-परिहितानि ग्रीवायां अवेयकानि-ग्रीवाभरणानि येन, अङ्गुलीयकानि-अङ्गुल्याभरणान्यूमिकाः ललितानि-शोभावन्ति कचाभरणानि च पुष्पादीनि यस्य, वराणिप्रधानानि कटकानि-हस्ताभरणानि त्रुटिकाश्च-बाह्वाभरणानि तैः स्तम्भिताविव भुजौ यस्य, अधिकरूपेण सश्रीकः कुण्डलोद्योतिताननः मुकुटदीप्तशिरस्कः हारेणावस्तृत-आच्छादितं तेनैव सुष्टुकृतरतिकं च वक्षो यस्य, मुद्रिकाभिः सरत्नाङ्गुल्याभरणैः पिङ्गला अङ्गुलयो यस्य, प्रलम्बेन-दीर्पण प्रलम्बमानेन च सुकृतं पटेनोत्तरीयकं-उत्तरासको येन, नानामणिकनकरतैर्विमलानि महार्हाणि-महा_णि निपुणेन शिल्पिना उविज त्ति परिकमितानि मिसिमिसिंतत्तिदेदीप्यमानानि यानि विरचितानि-निर्मितानि सुश्लिष्टानि-सुसन्धीनि विशिष्टानि-अन्येभ्यो विशेषवन्ति लष्टानिमनोहराण्याविद्धानि-परिहितानि वीरवलयानि येन, यः कश्चिद्वीरः स मां विजित्य वलयान्येतानि मोचयत्विति स्पर्द्धया परिहितानि वलयानि वीरवलयान्युच्यन्ते, किंबहुना वर्णितेन ? इति शेषः । कल्पवृक्ष इवालङ्कतो दलादि[भिर्विभूषितश्च फलपुष्पादिभिः कल्पवृक्षो, राजा पुनरलतो मुकुटादिभिः विभूषितो वस्त्रादिभिः । सकोरिटमल्लदामेणं ति सकोरिण्टानि-कोरिण्टकाख्यकुसुमस्तबकवन्ति माल्यदामानि-पुष्पस्रजो यत्र तत्तथा तेन, कोरिण्टकःपुष्पवृक्षजातिस्तत्पुष्पाणि मालान्ते शोभार्थं दीयन्ते, मालायै हितानि माल्यानि-पुष्पाणि दामानि-मालाः धरिजमाणेणं ति प्रियमाणेन, वाचनान्तरे तु सूर्याभवदलङ्कारवर्णकः स चैवम्-'एगावलिपिणद्धे' इत्यादि राजप्रश्नी
PRINCREASEANSARANASIA