SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र ० ॥ ६३ ॥ तलं - बद्धभूर्यत्र पुष्परसमिश्रैरुदकैः गन्धोदकैः- श्रीखण्डादिरसमित्रैः, उष्णोदकैः - अग्निततोदकैः, शुभोदकैः - पवित्रस्थानानीतैस्तीर्थोदकैः, सुखोदकैर्वा नात्युष्णैः, शुद्धोदकैश्च - खाभाविकैः, कथं मज्जित इत्याह- तत्थ ति तत्र स्नानावसरे कौतुकानां रक्षादीनां शतैः कल्याणानि कायत्याकारयति कल्याणकं यत्प्रवरमज्जनं तस्यावसाने पम्हल इत्यादि पक्ष्मला - पक्ष्मवती अत एव सुकुमाला गन्धप्रधाना काषायिका - कषायरक्तशाटिका तया लूषितं विरूक्षितम - शरीरं यस्य स तथा, अहयत्ति अहतं - मलाद्यनुपद्रुतं सुमहार्ष - बहुमूल्यं यद् दूष्यरत्नं- प्रधानवस्त्रं तेन सुसंवृतः परिगतः, यद्वा सुष्ठु संवृतं - परिहितं येन, क्वापि ' नासानीसासवायवज्झचक्खुहरवण्णफरिसजुत्तहयलालापेलवाइरेगधवलकणगखचिअंतकम्मदूसरयणसुसंबुए त्ति' पाठस्तत्र नासानिश्वासवातेन वाह्मं श्लक्ष्णत्वाच्चक्षुर्हरति विशिष्टरूपत्वाच्चक्षुर्हरं चक्षुर्धरं वा-चक्षूरोधकं घनत्वात् वर्णस्पर्शयुक्तं- प्रधानवर्णस्पर्श हयलालायाः सकाशात् पेलवं मृदु अतिरेकेण-अतिशयेन धवलं यत् तत् तथा कनकेन खचितं - मण्डितमन्तयोरञ्चलयोः कर्म्म वानकलक्षणं यस्य तत्तथा तेन दूष्यरत्नेन सुसंवृतः । सरस त्ति सरससुरभिगोशीर्षचन्दनेनानुलिप्तं गात्रं यस्य, शुचिनी - पवित्रे माला च - पुष्पमाला वर्णकविलेपनं च - मण्डनकारिकुङ्कमादिविलेपनं यस्य, यद्यपि वर्णकशब्देन चन्दनमुच्यते परं 'गोसीसचंदणाणुलित्तगते' इत्यनेन तस्योक्तत्वात् । आविद्धानि - परिहितानि मणिसुवर्णानि उपलक्षणत्वान्मणिसुवर्णमयभूषणानि येन, यस्य न धात्वन्तरमयं भूषणमस्तीत्यर्थः कल्पितो - विन्यस्तो हारो - ऽष्टादशसरिकोऽर्द्धहारो-नवसरिकखिसरिकं च प्रतीतं यस्य स तथा; प्रालम्बो - मुक्तावलीझुंबनकं प्रलम्बमानो यस्य, कटिसूत्रेण - कट्याभरणेन सुष्ठुकृता शोभा यस्य, ततः पदत्रयस्य किरणाव ॥ ६३ ॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy