SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० किरणाव रक्ताशोकस्य तरोः प्रकाशश्च किंशुकं च-पलाशपुष्पं शुकमुखं च गुजाया अर्द्धश्चेति द्वन्द्वस्तेषा यो रागस्तथा बन्धु-5 जीवकं च-पुष्पविशेषः, पारापतस्य चरणौ नयने च, परभृतस्य-कोकिलस्य सुरक्ते-सुशब्देन कोपाविष्टत्वोपलक्षणात् कोपारक्त लोचने च, जासुअणकुसुमरासि त्ति जपापुष्पप्रकरश्च हिङ्गुलकनिकरश्च-सुवर्तितकुरुविन्दगुटिका ततो रागान्तादिपदानामितरेतरद्वन्द्वे एतेभ्योऽतिरेकेणाधिक्येन राजमानः सन् सशस्तस्मिन्, अरुणत्वमात्रेण सदृशः विशिष्टदीप्त्या त्वतिरिक्त इति भावः । कमलाकराः-पद्मोत्पत्तिस्थानभूता इदादयस्तेषु यानि खण्डानि-नलिनवनानि | तेषां विबोधके-विकाशके उढिअंमि त्ति उत्थिते-उद्गते सूरे-वौ सहस्रं रश्मयो यस्य दिनकरे-दिनकरणशीले तेजसा ज्वलति सति तस्य च कराः-किरणास्तेषां तैर्वा प्रहारो-भिघातस्तेनापराद्धे-विनाशितेऽन्धकारे पहर त्ति प्राकृतलक्षणेन इखः, वालातपः कुडममिव तेन खचिते इव-पिंजरिते इव जीवलोके-मध्यजगति शयनीयादभ्युत्तिष्ठति ॥६॥ सयणिज्जाओ अब्भुट्टित्ता पायपीढाओ पच्चोरुहइ, पच्चोरुहित्ता जेणेव अढणसाला तेणेव उवागच्छइ, उवागच्छित्ताअट्टणसालं अणुपविसइ, अणुपविसित्ता अणेगवायामजोग्गवग्गणवामदणमल्लजुद्धकरणेहिं संते परिस्संते, सयपागसहस्सपागेहिं सुगंधवरतिल्लमाइएहिं पीणणिजेहिं दीवणिज्जेहिं मयणिज्जेहिं विंहणिजेहिं दप्पणिज्जेहिं सबिंदियगायपल्हायणिजेहिं अभंगिए समाणे, तिल्लचम्मंसि निउणेहिं पडिपुन्नपाणिपायसक्रमालकोमलतलेहिं अब्भंगणपरिमणु SAUSASISAASAASAASAASA ॥६१॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy