________________
व्वलणकरणगुणनिम्माएहिं छेएहिं दक्खेहिं पट्टेहिं कुसलेहिं मेहावीहिं जियपरिस्समेहिं पुरिसेहिं अद्विसुहाए मंससुहाए तयासुहाए रोमसुहाए चउविहाए सुहपरिक्कमणाए संवाहणाए संबाहिए समाणे, अवगयपरिस्समे अट्टणसालाओ पडिनिक्खमइ ॥१॥ व्याख्या-सयणिजाओ इत्यादितः पडिनिक्खमइ त्ति पर्यन्तम्, तत्र 'अट्टणसाल त्ति अढनशाला-व्यायामशाला अनेकानि व्यायामानि व्यायामनिमित्तं योग्यादीनि यानि, तत्र योग्या च-गुणनिका, वल्गनं-चोललनं, व्यामईनं-परस्परेण बाह्वाद्यङ्गमोटनं, मल्लयुद्धं प्रतीतम् , करणानि-चाङ्गभङ्गविशेषास्तैः श्रान्तः-सामान्येन, परिश्रान्तोऽङ्गप्रत्यङ्गापेक्षया सर्वतः, सयपाग त्ति शतकृत्वो यत्पकमपरापरौषधिरसेन सह शतेन, कार्षापणशतेन वा यत् पक्कं, एवं सहस्रपाकमपि, सुगन्धवरतैलादिभिरभ्यङ्गैरिति योगः, आदिशब्दात् घृतकर्पूरपानीयादिपरिग्रहः किम्भूतैः ? प्रीणनीय-रसरुधिरादिधातुसमताकारिभिः, दीपनीयैः-अग्निजननैः, मदनीयः-कामवर्द्धनः, बृंहणीयैः-मांसोपचयकारिमि, दप्पणीयै-लकरैः,सर्वेन्द्रियाणि सर्वगात्राणि प्रल्हादयन्तीति,कर्तर्यनीयस्तैरभ्यङ्गैः-स्नेहनैः, अभ्यङ्गः क्रियते स्म यस्य सोऽभ्यङ्गितः सन् , ततस्तैलचर्मणि-तैलाभ्यक्तस्य सम्बाधनाकरणाय यच्चने तूलिकोपरि कडवं तत्तैलचर्म तत्र संवाहिए समाणे ति योगः कैरित्याह-पुरुषैः कथंभूतः निपुणैरुपायकुशलैः पडिपुण्ण त्ति प्रतिपूर्णानां पाणिपादानां सुकुमालकोमलानि-अतिकोमलानि तलान्यधोभागापेक्षया येषा ते तथा तैः अभंगण त्ति अभ्यङ्गनपरिमईनोद्वलनानां