SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ANSAR तरतमजोगजुत्तेहिं जालपयरेहिं अन्नुन्नमिव अणुप्पइन्नं, पिच्छइ, सा जालुजलणगअंबरं व कत्थइ पयंतं, अइवेगचंचलं, सिहिं । १४ ॥ ४६॥ व्याख्या-सिहिं चेत्यादितः सिहिमिति पर्यन्तम् , तत्र सिहिमिति 'गयवसह'गाथाया अन्ते सिहिं चेति यत्पदं तस्येदं ग्रहणवाक्यमत एव तत इति नोक्तम्, विशेष्यपदं तु खप्नवर्णकान्ते सिहिमिति शिखिनं चतुईशे स्वप्ने सा त्रिशला पश्यति । विउलुजल त्ति विपुला उज्ज्वलेन पिङ्गलेन च मधुघृतेन परिषिच्यमाना निघूमा धगधगायमाना-धगधगिति कुर्वत्यो ज्वलन्त्यो-दीप्यमाना या ज्वाला-अर्चिषस्ताभिरुजवलमत एवाभिरामं, तरतमयोगो विद्यते येषु ते तरतमयोगा अभ्रादित्वादप्रत्ययः, एका ज्वाला उच्चान्यातूचतराऽपरा चोच्चतमा इति तरतमयोगयुक्तः, ज्वालानां प्रकरैः कलापैरन्योन्यमनुप्रकीर्णमिव-मिश्रितमिव स्पर्द्धया तदीया ज्वाला-अन्योऽन्यमनुप्रविशन्तीवेत्यर्थः, ज्वालानामुत्-ऊर्दू ज्वलनं-ज्वालोज्वलनं तदेव ज्वालोज्वलनकमार्षत्वाद्विभक्तिलोपे तेन कत्थइ त्ति क्वचित् प्रदेशेऽम्बरं-आकाशं पचन्तमिव क्वचिदभ्रंलिहाभिालाभिराकाशमिव पक्तुमुद्यतमिति भावः । अतिवेगचञ्चलम् ॥ १४ ॥४६॥ इमे एयारिसे सुभे सोमे पियदंसणे सुरूवे सुमिणे दद्दूण सयणमज्झे पडिबुद्धा । अरविंदलोयणा हरिसपुलइअंगी, “एए चउदस सुविणे, सव्वा पासेइ तित्थयरमाया । जं रयणिं वक्कमई, कुच्छिसि महायसो अरहा ॥ १॥"॥ ४७ ॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy