SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ मघंतगंधुद्धयाभिरामं, निच्चालोयं, सेयं, सेयप्पभं, सुरवराभिरामं, पिच्छह सा सातोवभोगं, ___ वरविमाणपुंडरीयं । १२ ॥ ४४ ॥ व्याख्या-तओ पुणो तरुणेत्यादितः पुंडरीयमिति यावत् , तत्र ततः सा त्रिशला द्वादशे खप्ने विमानवरपुण्ड&ारीकं प्रेक्षते, 'तरुणसूर ति' तरुणसूरमण्डलसमप्रभ, दीप्यमानशोभ, उत्तमकंचण ति उत्तमकाञ्चनमहामणिसमूहः प्रवराणां तेअ त्ति, तेकंते-गच्छन्त्याधारभावमिति तेका अथवा त्रायन्ते पतद्गृहमिति त्रेयाः तेकानां त्रेयाणां वास्तम्भानामष्टोत्तरसहस्रेण दीप्यमानं सत् नभः प्रदीपयति-प्रकाशयति यत्तत्तथा, कणगपयर त्ति कनकप्रतरेषु-सुवर्णपत्रेषु लम्बमानाभिर्मुक्ताभिः समुज्वलं, कनकप्रकरैर्लम्बमानमुक्ताभिश्च समुजवलमित्यन्ये, ज्वलहिव्यदाम, ईहामिग त्ति ईहामृगा-वृकाः, व्यालकाः-सर्पा, रुरवो-मृगभेदाः, संसक्ताः-श्वापदविशेषाः, वनलता-अशोकलताद्याः, पालताः-पद्मिन्यः, शेषाः प्रतीताः । एषां भक्तिभिः-विच्छित्तिभिश्चित्रं-नानारूपं गंधव त्ति गन्धर्वस्य-गीतस्योपवाद्यमानस्य-वादित्रस्य च सम्पूर्णो घोषो यत्र तत्तथा, नित्यं-शाश्वतं, सजलो घनोऽविरलः विपुलः-पृथुलो यो जलघरो-मेघस्तस्य गर्जितशब्दस्तद्वदनुनादिना-प्रतिरवयुक्तेन देवदुन्दुभिमहारवेण सकलमपि जीवलोकं पूरयन्तं-आप्याययन्तं चतुर्दशरज्वात्मकं वा लोकं व्याप्नुवन्तं कालागुरुप्रवरकुंदुरुक्कतुरुष्काः प्रागिव ते च दखमानो धूपश्चदिशाङ्गादिर्वासाङ्गानि च-गन्धमालिनीग्रन्थोक्तसुरभीकरणोपायभूततत्तयाणि तेषामुत्तमेन मघमघायमानेन गन्धेन
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy