SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ व्याख्या-तओ पुणो चंदेत्यादितः सोमवयणेति पर्यन्तम् , तत्र ततः पुनरेकादशे खप्ने शरद्रजनीकरसौम्यवदना त्रिशला क्षीरोदसागरं पश्यति, चंद त्ति चन्द्रकिरणराशेः सदृशा श्रीर्यस्या एवंविधा वक्षःशोभा यस्य स तथा तं, वक्षःशब्देनात्र मध्यभागो लक्ष्यः, चउगमण त्ति चतुर्गमनेषु-चतुर्दिग्मार्गेषु प्रवर्द्धमानः प्रवर्त्तमानो वा-प्रसरन् जलसंचयो यस्य, चउगुणपवड्डमाणजलसंचयमिति पाठस्तु कस्माचतुर्गुणत्वमित्यनपेक्ष्यवाधिक्यमात्रस्यैव विवक्षितत्वात्सुगम एव चवल त्ति चपलेभ्योऽपि चञ्चलैरुच्चात्मप्रमाणैश्चात्युन्नतखमानैः कल्लोलैर्महातरङ्गैः-लोलत्-एकीभूय विरलीभवत्तोयं-पानीयं यस्य स तथा तं, पडुपवण त्ति पटुपवनाहतास्सन्तश्चलिताः-प्रवृत्ता अत एव चपलाः प्रकटाश्च-स्पष्टास्तरङ्गाः-सामान्येन कल्लोलाः तथा रङ्गन्त-इतस्ततःप्रेङ्खन्तो भङ्गाः-'भङ्गस्तरङ्गभेदे च' इति वचनात्, तरङ्गविशेषा एव तथा खोखुन्भमाण त्ति अतिक्षुभ्यन्तः शोभमानाः निर्मलाः-खच्छाः उत्कटा-दुस्सहा ऊर्मयो-विच्छित्तिमन्तः कल्लोलाः ततस्तरङ्गान्तभङ्गान्तोर्म्यन्तपदानां द्वन्द्वः तैः सह-सार्धं यः सम्बन्धस्तेन पूर्व धावमानः-तीराभि| मुखं सर्पन भासुरतरो-अतिदीप्तिमान् अपनिवृत्तश्चाभिरामो दीप्तिमानेव यद्वा धावमानोऽपनिवृत्तश्च सन् भासुरतरोऽतिदीप्तिमान् अत एवाभि-समन्ततो रामो-रमणीयः, पश्यतां दृक्पथमागतोऽत्यन्तप्रीतिदायीत्यर्थः । एतदर्थानुपातिनी श्रीजयसुन्दरसूरिकृतार्या यथा-"कल्लोललोलसलिलं, धावदपसरद्बहुम्मिरम्यतटम् । नद्यागमसावत, क्षीराब्धि सैक्षत गभीरम् ॥१॥" यत्तु केचित् 'भयङ्करे तु डमरमाभीलं भासुरं तथा' इति शेषवचनात् , धावमानो
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy