________________
कल्पसूत्र०
किरणाव
॥५४॥
मत्ताः-समदा मधुकरीगणाश्च-भ्रमरजातिविशेषास्तेषामुत्कराः-समूहाः, अत्र समूहानामपि समूहाभिधानं बहुत्वख्यापनार्थम् , ततस्तैरवलिबमानानि-आखाद्यमानानि कमलानि यत्र तत्, कायंबक त्ति कादम्बका:-कलहंसाः, बलाहका-बलाकाः, चक्राः-चक्रवाकाः, कला-मधुरध्वनयो, हंसा-राजहंसाः, सारसा-दीर्घजानुकास्ते च ते गर्विताःसुस्थानप्राप्तिदृप्ताः शकुनिगणाश्च-पक्षिसमूहास्तेषां मिथुनैः-इन्द्रः सेव्यमानं सलिलं यस्य तत्, पद्मिनीपत्रोपलना ये जलबिन्दवस्तेषां निचयेन चित्रं मण्डितमिव, क्वचिच्च जलबिंदुमुत्तचित्तमिति पाठः, तत्र जलबिन्दव एव मुक्तामौक्तिकानि ताभिश्चित्रमिति व्याख्येयम् । हृदयनयनकान्तं, सररुहाभिरामं ति सरस्सु-सरसीषु अई-पूज्यं अत एवाभिरामं सरोहाभिरामं उच्चाहतीति सूत्रेण हकारात्पूर्वमुकारः । १०॥४२॥ तओ पुणो चंदकिरणरासिसरिससिरिवच्छसोहं, चउगमणपवड्डमाणजलसंचयं, चवलचंचलचायप्पमाणकल्लोललोलंततोयं, पडुपवणाहयचलियचवलपागडतरंगरंगतभंगखोखुब्भमाणसोभंतनिम्मलउक्कडउम्मीसहसंबंधधावमाणोनियत्तभासुरतराभिरामं, महामगरमच्छतिमितिमिंगिलनिरुद्धतिलितिलियाभिघायकप्पूरफेणपसरं, महानईतुरियवेगमागयभमगंगावत्तगुप्पमाणुच्चलंतपच्चोनियत्तभममाणलोलसलिलं, पिच्छइ, खीरोयसायरं, सारयरयणिकरसोमवयणा । ११॥ ४३॥
॥५४॥