SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र ॥५३॥ मयं पूर्णकलशं पश्यति, कीदृशं ? जात्यकाञ्चनवत् उत्प्राबल्येन ज्वलत्-दिप्यमानं रूपं बस, केचित्तु रजतशब्दस्य रूप्यवाचकत्वेऽपि 'जचकंचणु' इत्यादिवचनेन विसंवादसम्भवादन कनकमेव प्रायम् , तथा च स्वर्णमयमित्यर्थः । जच्च त्ति जात्यकाञ्चनेन उत्प्राबल्येन ज्वलद्रूपं यस्य तमिति व्याख्यानयन्ति, तत्रोक्तव्याख्यानानुसारेण विसंवादगन्धस्याप्यभावात् कथं तदनुरोधेन कल्पनया व्याख्यानं युक्तमिति बोध्यम् । निर्मलजलपूर्ण, उत्तम, दीप्यमानशोभ, कमलकलापेन परि समन्ताद्राजमानम्, पडिपुन्नय त्ति प्रतिपूर्णकानां सर्वमङ्गलभेदानां समागमो-मेलापकः स्थानमित्यर्थः, क्वचिच्च पडिबुझंतसवमंगलालयसमागममिति पाठः, तत्र प्रतिबुध्यमानानि-जागरूकाणि यानि सर्वमङ्गलानि तेषामालयो-निवासभूतः समागमः-सम्मुखागमनं यस्य तं, प्रवस्रनैः प्रकर्षेण राजति कमले स्थितं, यद्वा प्रवरा रचना यस्यैवंविधः परागः-पुष्परजोऽन्तर्गर्भ यस्यैतादृशे कमळे स्थितं, नयनानामानन्दकत्याभूषणकर, प्रभासमानं-खयं दीप्यमानं प्रभया समानं वा अत एव सर्वा दिशो दीपयन्तं, सौम्यलक्ष्म्याः -प्रशस्तसम्पदो निमेलणं ति देश्यत्वाद् गृहं, सर्वैः पापैः-अशिवैः परिवर्जितं, अत एव शुभं, भासुरं-दोतं, श्रिया-त्रिवर्गसम्पत्त्या वरं-श्रेष्ठं तदागमसूचकत्वात् , सर्वर्तुजानां सुरभिकुसुमानामासक्तं-कण्ठस्थ माल्यदाम-प्रशस्तमाला यस्मिन् तं, अत्र दामशब्दः परोऽपि प्रशंसार्थः, यथा बनान्तकपोलपालीत्यादौ अन्तपालीशब्दो।९॥४१॥ तओ पुण रविकिरणतरुणबोहिअसहस्तपत्तसुरभितरपिंजरजलं, जलचरपहकरपरिहत्थगम
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy