________________
कृष्णस्य नीलादनतिविप्रकर्षात् पञ्चवर्णैः सुकुमारैः-कोमलैरुल्लसद्भिः-वातेन स्फुरद्भिर्मयूरपिच्छैः कृता मूर्द्धजा इवकेशा इव यस्य स तथा तं, ध्वजमिति प्राग् योजितमेव । अधिकसश्रीकं-अतीवशोभायुक्तं, फालिअ ति स्फटिकं च शङ्खच-कम्बुः अथवा स्फाटितो-भिन्नः शङ्खः अङ्कश्च-रत्नविशेषः कुन्दश्च-कुन्दमाल्यं दकरजांसि च-जलकणाः रजतकलशो-रूप्यकुम्भस्तद्वत्पाण्डुरेण मस्तकस्थेन राजमानेन गगनमण्डलं भेत्तुं व्यवसितेनेव-कृतोद्यमेनेव अत्युच्चैस्त्वा|दियमुत्प्रेक्षा एवंविधेन सिंहेन-भगवल्लाञ्छनभूतसिंहाकारपताकया सिंहचित्रेण वा राजमानं सिवमउअ त्ति शिवः
सौम्यो मृदुको-अचण्डो यो मारुतो-वातस्तस्य लयः-श्लेषस्तेनाहतं-अन्दोलितमत एव कम्पमानं-इतस्ततो नृत्यन्तं, है अथवार्यत्वात् लयाहय त्ति आहतविशेषणस्य प्रामिपातेऽपि शिवमृदुकमारुताहतलतावत्कम्पमानमिति व्याख्येयम् । अतिप्रमाणं-महाप्रमाणं जनप्रेक्षणीयरूपम् । ८ ॥४०॥ तओ पुणो जच्चकंचणुजलंतरूवं, निम्मलजलपुन्नमुत्तमं, दिप्पमाणसोहं, कमलकलावपरिरायमाणं, पडिपुन्नयसव्वमंगलभेअसमागम, पवररयणपरायंतकमलट्रिअं, नयणभूसणकरं, पभासमाणं, सव्वओ चेव दीवयंतं, सोमलच्छीनिभेलणं, सव्वपावपरिवजिअं, सुभं, भासुरं, सिरिवरं, सव्वोउअसुरभिकुसुमआसत्तमल्लदाम, पिच्छइ, सा रययपुन्नकलसं ॥९॥४१॥ व्याख्या-तओ पुणो जच्चकंचणेत्यादितः पुण्णकलसमित्यन्तम्, तत्र ततः सा नवमे स्वप्ने रजतपूर्णकलशं-रूप्य