________________
कल्पसूत्रदुष्टप्रचारान् प्रमहयात
दुष्टप्रचारान् प्रमईयति यस्तं, शीतवेगमथनं-जाड्यातिशयविध्वंसक मेरुगिरि सततं-निरन्तरं परिवर्तयति पक्षिण-18|| किरणाव ॥५२॥
यतीति मेरुगिरिसततपरिवर्तकस्तं, विशालं-विपुलमण्डलं, रश्मिसहस्रेण हेतुभूतेन प्रगलिता-प्रदलिता वा दीक्षानामपि चन्द्रादीनां शोभा यस्मायेन वा स तथा तं, अत्र रश्मिसहस्राभिधानं रूढ्याऽवगन्तव्यम्, अन्यथाऽऽधिक्यमपि रविरश्मीना लोकशास्त्रेषुच्यते यथा-"ऋतुभेदात् पुनस्तस्याऽतिरिच्यन्तेऽपि रश्मयः । शतानि द्वादश मधौ, त्रयोदश तु माधवे ॥१॥ चतुर्दश पुनज्येष्ठे, नभो नभस्ययोस्तथा । पञ्चदशैव चापाढे, षोडशैव तथाश्चिने ॥२॥ कार्तिके त्वेकादश च, शतान्येवं तपस्यपि । मार्गे च दश सार्द्धानि, शतान्येवं च फाल्गुने ॥३॥ पौष एव परं मासि, सहस्रं किरणा रवेः।" इति । ७॥ ३९॥
तओ पुणो जच्चकणगलट्ठिपइट्ठिअं, समूहनीलरत्तपीअसुक्किलसुकुमालुल्लसिअमोरपिच्छकयमुद्धयं, धयं, अहिअसस्सिरीअं, फालिअसंखंककुंददगरयरययकलसपंडुरेण मत्थयत्थेण सीहेण रापमाणेण रायमाणं, भित्तु गगणतलमंडलं चेव ववसिएणं पिच्छइ, सिवमउअमारुअलयाहयकंपमाणं, अइप्पमाणं, जणपिच्छणिज्जरूवं । ८॥४०॥
व्याख्या-तओ पुणो जच्चेत्यादितः पिच्छणिजरूवमित्यन्तम् , तत्र ततः पुनरष्टमे खप्ने ध्वजं पश्यति, जात्यकनकलष्ठिप्रतिष्ठितं, समूहोऽस्त्यपामिति समूहा अभ्रादित्वाद् अप्रत्यये समूहवन्तः-प्रचुरा इत्यर्थः, तैर्नीलरक्तावीतशुक्लै:
॥५२॥