________________
द्धरायसरिसं, कमलवणालंकरणं, अंकणं जोइसस्स, अंबरतलपईवं, हिमपडलगलग्गहं, गहगणोरुनायगं, रत्तिविणासं, उदयत्थमणेसु मुहुत्तसुहदंसणं, दुन्निरिक्खरूवं, रत्तिमुद्धंतदुप्पयारप्पमद्दणं, सीअवेगमहणं, पिच्छइ, मेरुगिरिसययपरिअद्वयं, विसालं, सूरं, रस्सीसहस्सपयलिअदित्तसोहं । ७ । ३९ ॥ व्याख्या-तओ पुणो तमेत्यादितो दित्तसोहमित्यन्तम्, तत्र ततः पुनः सप्तमे खप्ने सूर्य पश्यति । कीदृशं ? तम त्ति तमःपटलस्याभावोऽतमःपटलं तेन परिस्फुट-सर्वदिक्षु प्रकटं यद्वा तमःपटलं परिस्फोटयतीति तमःपटलपरिस्फोटतं. चेव तेअस त्ति चैवशब्दस्यावधारणार्थस्य व्यवहितस्यापि सम्बन्धात्तेजसैव प्रज्वलद्रूपं, प्रकृत्या हि सूर्यमण्डलवर्त्तिवादरपृथ्वीकायिकाःशीतला एव। अथवा चेव त्ति समुच्चयार्थः, रत्तासोग त्ति रक्ताशोकश्च प्रकाशकि. शुकश्च-पुष्पितपलाशः शुकमुखं च गुजार्द्धश्च तेषां रागेण सदृशमारक्तत्वात्, कमलवनमलकरोति-विकाश श्रिया विभूषयतीति कमलवनालङ्करणस्तं, ज्योतिषां समूहो ज्योतिष-ज्योतिश्चक्रं तस्याङ्कनं-मेषादिराशिसङ्क्रमणादिना लक्षणज्ञापकं, अम्बरतलप्रदीपं, हिमपटलं गलेगृह्णातीति हिमपटलगलग्रहः-अवश्यायराशेर्गले हस्तयितेत्यर्थः, ततस्त, ग्रहगणस्य उरुः-महानायकस्तं, रात्रिविनाशमिति स्पष्टं, उदयास्तमयोर्मुहूर्तसुखदर्शनं, अन्यदा तु दुर्निरीक्ष्यरूपमिति व्यक्तम् । रत्तिमुद्धंत त्ति रात्री मकारस्थालाक्षणिकत्वादुद्धावत-उच्छृखलान् दुःप्रचारान्-चौरपारदारिकादीन्