________________
कल्पसूत्र०
॥५॥
एतेन केचिद्दुर्विदग्धाः गृहस्थानामप्यस्य वाचनं श्रावणं च समर्थयन्ति तत्तु दूरोत्सारितमेव परं ये स्वयं पण्डितंमन्या श्रमणवत् साध्वीनामपि पट्टमधिरुह्मोपदेशप्रदानं समर्थयन्ति तेऽपि नैव विदन्त्याप्तागमस्यैदम्पर्य्यमित्यपि सुनिश्चितम् यतो न जिनशासने स्त्रीप्राधान्यं किन्तु पुरुषप्राधान्यमेव, अत एव तत्त्वशैरेकोनविंशतितमतीर्थपतिश्रीमल्लिनाथाधिपत्यमप्याश्चर्यान्तर्गततयैव प्रतिपादितम् ।
अस्य सूत्रस्य भगवत उपरि जातेष्वपि चूर्णिटिप्पणान्तर्वाच्यादिषु प्रतिपर्युषणं वाचने श्रवणे चापि न तथाविध आनन्दो वाचकानां श्रोतॄणां च, यतस्सुन्दरमपि संक्षिप्तं स्थूलशेमुषीणां नैव भवति संतोषप्रदं विस्तररुचीनां विस्तरत एव सद्बोधात्, अत एव वाचकपुङ्गवश्रीमद्धर्मसागरगणिभिर्विहितेयं कल्पकिरणावलीनामा सविस्तरा सुरम्या च वृत्तिः, समयश्चास्याः सप्तदशीयो वैक्रमशतक इति प्रान्ते तैरेव स्थापितेन
“व्याख्योपयोगीनिश्शेष-वाच्यरुच्या वचखिना । स्फूर्त्तिकर्त्री सदस्येषा, श्री कल्पकिरणावलिः ॥ १ ॥
विक्रमादष्टयुषट्—शशाङ्काङ्कित ( १६२८ ) वत्सरे । दीपोत्सवदिने दृब्धा, राजधन्यपुरे पुरे ॥ २ ॥ युग्मम् ”
अनेन श्लोकयुग्मेन सुस्पष्टं निश्चीयते । एतस्यामप्येतेषां समभूदनुपयोगसाम्राज्यम्, अत एव श्रीऋषभदेवचरित्रे “भगवतो भक्त्याऽहमेव युवाभ्यां दास्यामीति भणित्वाऽष्टचत्वारिंशत्सङ्ख्याका विद्याः” इत्युक्तं, स्थविरावल्यां चार्यरक्षभिन्नानामार्यरक्षितानां चरित्रमुपन्यस्तम्, अन्यथा नैव युज्यत एतत्, यत आवश्यक वृत्त्यादिषु तासामष्टचत्वारिंशत्सहस्रसङ्ख्याकत्वं प्रोक्तम्, श्रीतोसलिपुत्राचार्य शिष्येभ्यः श्रीवत्रस्वामिपार्श्वेऽधीतसाधिकनवपूर्वेभ्यः श्री आर्यरक्षितेभ्यः श्री आर्यरक्षाणां श्रीवत्रस्वामिभ्यः शिष्यप्रशिष्यादिगणनया नवमस्थानभावित्वेन च स्पष्टैव भिन्नता । अथैमिः पूज्यप्रवरैर्मरीचिवचनस्योत्सूत्रमिश्रत्वसम्पादनाय संसारस्य कोटाकोटिसागरपरिमितस्य हेतुत्वमाख्यायि परं तदपि न रमणीयम्,
किरणाव०
प्रस्ता०
114 11