SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ सोग त्ति चम्पकाशोकादीनां सहकारान्तानां यःसुरभिर्गन्धः सोऽस्ति यस्य तत् , अणुवम त्ति अनुपममनोहरण गन्धन व्यवहितस्याप्यपेः सम्बन्धादशापि दिशो वासयत्, सबोउअ त्ति सर्वतुकं यत्सुरभिकुसुममाल्यं तेन धवलं तच्च तद्विलसत्कान्तबहुवर्णभक्तिचित्रं चेति विशेषणकर्मधारयः, अनेन धवलवर्णस्याधिक्यं लक्ष्यते, छप्पयमहुअरि ति प्राकृतत्वात् प्राग्वद्विशेषणानां परत्वेऽपि गुमगुमायमानो-मधुरं ध्वनन् निलीयमानः-स्थानान्तरादागत्य च तत्र लीयमानो गुञ्जन्-शब्दविशेष कुर्वेश्च षट्पदमधुकरीभ्रमराणां-वर्णादिभेदभिन्नभ्रमरजातीनां गणः-समुदायो देशमागेषु तस्मिन् तस्मिन् देशे यस्य तद् गुमगुमायमाननिलीयमानगुञ्जत्षट्पदमधुकरीभ्रमरगणदेशभागमित्यर्थः । ५॥३७॥ ससिं च गोखीरफेणदगरयरययकलसपंडुरं, सुभं, हिअयनयणकंतं, पडिपुन्नं, तिमिरनिकरघणगुहिरवितिमिरकर, पमाणपक्खंतरायलेह, कुमुअवणविबोहगं, निसासोहगं, सुपरिमट्ठदप्पणतलोवमं, हंसपडुवन्नं, जोइसमुहमंडगं, तमरिपुं, मयणसरापूरं, समुद्ददगपूरगं, दुम्मणं जणं दइअवज्जिअं पायएहिं सोसयंतं, पुणो सोमचारुरूवं, पिच्छइ । सा गगणमंडलविसालसोमचकम्ममाणतिलयं, रोहिणिमणहिअयवल्लहं, देवी पुन्नचंदं समुल्लसंतं । ६ ॥३८॥ व्याख्या-ससिं चेत्यादितः समुलसंतमिति पर्यन्तं, तत्र ततः पुनः सा त्रिशला देवी षष्ठे स्वप्ने शशिनं च पश्यति ।
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy