SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ रत्नानि - वैडूर्यादीनि, कनकं- पीतवर्ण, तपनीयं तदेव रक्तं तच्च जात्यत्वाद्विमलमहच्छब्दाभ्यां विशेषितं तेषां यान्याभरणानि - अङ्गपरिधेयानि यानि च भूषणानि - उपाङ्गपरिधेयानि, तैर्विराजितानि यथाक्रममङ्गानि - शिरःप्रभृतीनि | उपाङ्गानि - चाङ्गुल्यादीनि यस्यास्तां, मंगु ति मागमस्त्वार्षत्वात् हारविरायंत त्ति हारेण विराजत् कुन्दमालया - कुन्दादिकुसुममालया परिणद्धं व्यासं जलजलिंत त्ति जाज्वल्यमानं - देदीप्यमानं स्तनयुगलमेव विमलौ कलशौ यस्यास्तां, आइअपत्तिअ इत्यादि, अत्र मुक्ताकलापकेन कण्ठमणिसूत्रकेण शोभागुणसमुदयेन चेति विशेषणत्रयेण सविशेषणेन उपलक्षितामिति भगवतीविशेषण मध्याहृत्य व्याख्येयम्, तथाहि - आइअत्ति आमर्यादया स्थानौचि| त्येन चिता- न्यस्ता या पत्रिका - मरकतपत्राणि ताभिर्विभूषितोऽलङ्कतोऽथवा आदृतप्रत्ययितैः - सादरविश्वस्तविज्ञानिकैर्विभूषितो - विरचितमण्डनस्तेन सुभग त्ति सुभगे - ईष्टिहारिभिर्जाले - गुच्छविशेषैरुज्वलस्तेन एवंविधेन मुक्ताकलाप केनोपलक्षितां तथा उरत्थदीणार ति चः - पुनरर्थे उरःस्थया दीनारमालया विरचितेन विराजितेन वा कण्ठमणिसूत्रकेण - कण्ठस्थरत्नमयसूत्रेणोपलक्षितां तथा कुंडल त्ति 'देहलीप्रदीप' न्यायेन चकारस्यात्रापि सम्बन्धात् पुनः कीदृशीं भगवतीं आर्षत्वादंसोपसक्तमिति विशेषणस्यापि परनिपातेनांसयोः - स्कन्धयोरुपसक्तं - लग्नं यत्कुण्डलयुगलं तस्योल्लसन्ती - शोभमाना सती प्रशस्ता प्रभा यत्रैवंविधेन शोभागुणसमुदयेन - दीप्तिलक्षणगुणप्राग्भारेण किंलक्षणेन | आनन कौटुम्बिकेन - यथा किल राज्ञः शोभाकारिणः कौटुम्बिकाः तथा मुखनरेन्द्रस्य शोभाकारित्वेन यः कौटुम्बि
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy