SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० ॥४९॥ चनार्थमिदं विशेषणम् , पसत्थरूवं ति प्रशस्तरूपां सुपइटिअ त्ति सुप्रतिष्ठितौ-समतलनिवेशौ कनकमयकूर्मेणोन्नतत्वात्सदृशमुपमानं ययोस्तादृशौ च चरणौ यस्याः सा तथा तां अचुन्नय त्ति अत्युन्नतं पीनमङ्गुष्ठाद्यङ्गं तत्र रजितारजिता लाक्षारसेन रजिता इव मांसला उन्नता-मध्योन्नतास्तनवः-तलिनास्ताम्रा-अरुणाः स्निग्धा-अरूक्षा नखा यस्याः सा तथा तां, यद्वाऽत्युन्नतानपि-निजरूपदोद्धरानपि प्रीणयन्तीति अत्युन्नतपीणा इति नखविशेषणमेव कार्यम् । कमलपलास त्ति कमलस्य पलाशानि-पत्राणि तद्वत्सुकुमालौ करचरणौ यस्याः सा चासौ कोमलवराङ्गुलिश्चेति कुरुविंदावत्त त्ति कुरुविन्दावत-भूषणविशेष आवर्तविशेषो वा तद्वत्यौ वृत्तानुपूर्वे च जो यस्याः सा तथा तां, निगूढजानु त्ति गुप्तजानु, गयवर त्ति गजवरकरो-गजेन्द्रशुण्डा तत्सदृशे पीवरे-पुष्टे ऊरू यस्यास्ता, चामीकर त्ति चामीकररचितमेखलायुक्तं कान्तं विस्तीर्ण श्रोणिचक्र-कटिचक्रं यस्यास्तां, जचंजण त्ति जात्याअनंसामर्दिताअनं तथा च जात्याअनभ्रमरजलदप्रकर इव वर्णेन तत्सदृशीत्यर्थः, ऋजुका-सरला समा-विषमा संहिता |निरन्तरा तनुका-सूक्ष्मा आदेया-सुभगा लटभा-सविलासा सुकुमालमृदुका-सुकुमारेभ्योऽपि शिरीषपुष्पादिभ्योऽपि Mमृद्वी रमणीया-मनोज्ञा रोमराजी यस्यास्ता, नाभीमंडल त्ति नाभीमण्डलेन सुन्दरं-विशालं प्रशस्तं सुलक्षणत्वाजघनं यस्यास्तां, करयलमाइअ त्ति करतलेन-मुष्टिना माइअ त्ति मेयं-मानयोग्यं मानं वा प्रशस्तत्रिवलीक-वलित्रययुक्तं मध्यं यस्यास्तां नाणामणि त्ति नानाप्रकाराणि यान्याभरणानि भूषणानि चेति योज्यम् । मणयः-चन्द्रकान्ताद्याः, ॥४९
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy