________________
-
एकयोजनपृथुदीर्घ, नीलरत्नमयदशयोजननालं, वज्रमयमूलं, रिष्टरत्नमयकन्दं, रक्तवर्णमयबाह्यपत्रं, जाम्बूनदमयाभ्यन्तरपत्रं, चैकं कमलं। तत्र कोशद्वयपृथुलायामा क्रोशैकोच्चा रक्तकनकमयकेसरा, कनकमयी कर्णिका, तस्या मध्ये क्रोशैकदीर्घ,क्रोशार्द्धपृथुलं, किञ्चिन्यूनकोशोचं, पञ्चशतधनुरुचतदर्द्धमानपृथुपूर्वदक्षिणोत्तररूपदिक्त्रयवर्तिद्वारत्रिकं, श्रीदेवीभ-15 वनं। तन्मध्ये सार्द्धशतद्वयधनुर्माना मणिवेदिका, तदुपरि च श्रीदेवीयोग्यं शयनीयं । तन्मुख्यकमलपरितश्च श्रीदेव्याभरणभृतानि वलयाकाराणि तदर्द्धमानानि अष्टोत्तरशतपद्मानि । तत्परितो द्वितीयवलये वायव्येशानोत्तरदिक्षु चतुःसहस्रसामानिकसुराणां चतुःसहस्रसङ्ख्याकानि कमलानि, पूर्वदिशि चतसृणां महत्तरदेवीनां चत्वारि कमलानि, आग्नेय्यां गुरुस्थानीयाभ्यन्तरपार्षदाष्टसहस्रसुराणामष्टसहस्रकमलानि, दक्षिणस्यां मित्रस्थानीयमध्यमपार्षददशसहससुराणां दशसहस्रकमलानि, नैर्ऋत्यां किङ्करस्थानीयबाह्यपार्षदद्वादशसहस्रसुराणां द्वादशसहस्रकमलानि, पश्चिमायां हस्त्य१ व २ रथ ३ पदाति ४ महिष ५ गन्धर्व ६ नाव ७ रूपसप्तसैन्यखामिनां सप्तसङ्ख्यानि पद्मानि । ततस्तृतीयवलये षोडशसहस्राङ्गरक्षकदेवानां षोडशसहस्रकमलानि । चतुर्थवलये द्वात्रिंशल्लक्षाभ्यन्तराभियोगिकदेवानां द्वात्रिंशलक्षकमलानि । पञ्चमे वलये चत्वारिंशलक्षमध्यमाभियोगिकदेवानां चत्वारिंशलक्षकमलानि । षष्ठे वलयेऽष्टचत्वारिंशल्लक्षवाह्यामियोगिकसुराणामष्टचत्वारिंशलक्षकमलानि। एवं चात्मना सह पविलयैः सर्वसङ्ख्यया कमलानि एका कोटिः १ विंशतिर्लक्षाः २० पञ्चाशत्सहस्राः ५० शतमेकं १ विंशति २० श्चेति । एवमेभिश्च कमलैः परिवृते कमले | लष्टं-प्रधानं यथा स्यास्था संस्थिता-प्राप्तां अन्यत्रावस्थिताऽपि पबहूदवासिनी भवत्येवेति तत्रैव संस्थितामिति सू
१३ का