________________
यस्य स तथा तं, विसालपीवर त्ति विशालौ विस्तीणौँ पीवरौ-पुष्टौ वरी-प्रधानौ ऊरू यस्य स तथा तं, तथा प्रजातिपूर्णो-अन्यूनो विमलः स्कन्धो यस्य स तथा तं, तथा मिउविसय ति मृदूनि-सुकुमाराणि विशदानि-धवलानि
सूक्ष्माणि-तनूनि लक्षणः प्रशस्तानि प्रशस्तलक्षणानि विस्तीर्णानि-दीर्घाणि यानि केसराणि-स्कन्धसम्बन्धिरोमाणि | तेषामाटोप-उद्धतता तेन शोभितं, तथा ऊसिअ त्ति उच्छ्रितं-उदग्रं सुनिमितं-कुण्डलीकृतं सुजातं-सशोभं यथा स्यात्तथाऽऽस्फोटित-माच्छोटितं लालं-पुच्छं येन स तथा तं, सोमं सौम्यं वा-मनसाऽङ्क्रमित्यर्थः, सोमाकार-सुन्दराकृति लीलायन्तं मन्थरगति, गाढ त्ति गाढं-अत्यर्थ तीक्ष्णान्यग्राणि येषामेवंविधा नखा यस्य तं, तथा वयण त्ति वदनस्य-मुखविवरस्य श्रिये-रक्तत्वमृदुत्वाभ्यां शोभायै पलव इव प्राप्ता-प्रसारिता चार्वी जिह्वा येन स तथा तं वयणसिरिपलंबपत्तचारुजीहमिति पाठे तु वदनस्य श्रीः-शोभा यया सा वदनश्रीस्तथाविधा प्रलम्बा-लम्बमाना पत्रवच्चार्वी च जिह्वा यस्येति व्याख्येयम् । ३ ॥ ३५॥ तओ पुणो पुन्नचंदवयणा, उच्चागयटाणलटुसंठिअं, पसत्थरूवं, सुपइट्ठिअकणगमयकुम्मसरिसोवमाणचलणं, अचुन्नयपीणरइअमंसलउन्नयतणुतंबनिद्धनहं, कमलपलाससुकुमालकरचरणकोमलवरंगुलिं, कुरुविंदावत्तवटाणुपुत्वजंघ, निगूढजाणुं, गयवरकरसरिसपीवरोरुं, चामीकररइअमेहलाजत्तकंतविच्छिन्नसोणिचकं जच्चंजणभमरजलयपयरउजुअसमसंहिअतणु
*SISAAASSSSSS
**