________________
श्रीभर - उत्कृष्टशोभासमुदयस्तेन, पिल्लण त्ति यत्प्रेरणेव प्रेरणा तयैव विसर्प्यत्-उल्लसदत एव कान्तं - दीप्तिमत् शोभमानं च चारु च- प्रधानं ककुदं स्कन्धो यस्य स तथा तं तणुयुद्ध त्ति तनूनि - सूक्ष्माणि शुद्धानि-शुचीनि सुकुमालानि - मृदुस्पर्शवन्ति यानि रोमाणि तेषां स्निग्धा छविर्यस्य स तथा तं, तथा थिरसुबद्ध त्ति स्थिरं दृढं अत एव सुबद्धं तथा मांसलमत एवोपचितं-पुष्टं लष्टं प्रधानं सुविभक्तं - यथावत्सन्निविष्टावयवं एवंविधं सुन्दरम - देहं यस्य स तथा तं, घणवट्ट त्ति घने - निचिते वृत्ते - वर्त्तुले लष्टोत्कृष्टे - लष्टादप्युत्कृष्टेऽतिश्रेष्ठे तुप्पग्ग ति प्रक्षिताग्रे तिक्ख ति तीक्ष्णे शृङ्गे यस्य स तथा तं, क्वचित्तु तुप्पपुप्फग्गतिक्खसिंगमिति पाठः, तत्र तुप्पे - प्रक्षिते पुष्पं गोरोचनासूचकं बिन्दुरूपं तदग्रे - उपरिभागे ययोरीडशे तीक्ष्णे शृङ्गे यस्य स तथा तं, दान्तं-अक्रूरं शिवं- उपद्रवोपशामकं, समाण ति समानाः - तुल्यप्रमाणाः अत एव शोभमानाः शुद्धा: - श्वेता दोषरहिता वा दन्ता यस्य स तथा तं, अमिअत्ति अमिता - मानरहिता गुणा येभ्यः, एवंविधानि यानि मङ्गलानि तेषां मुखमिव मुखं - द्वारम् ॥ २ ॥ ३४ ॥
तओ पुणो हारनिकरखीरसागरससंक किरणदगरयरययमहासेलपंडुरतरं, २०० रमणिज्जपिच्छणिज्जं, थिरलट्टपउट्टवट्टपीवरसुसिलिट्ठविसिट्ठतिक्खदाढाविडंबियमुहं, परिकम्मिअजच्चकमलकोमलपमाणसोभंतलट्ठउट्टं, रत्तुप्पलपत्तमउअसुकुमालतालुनिल्लालि अग्गजीहं, मूसागयपवरकणगताविअआवत्तायंतवद्यतडिविमलसरिसनयणं, विसालपीवरवरोरुं, पडिपुन्नविमलखं