________________
*******
खीरसागरससंककिरणदगरयरययमहासेलपंडुरतरं समागयमहुअरसुगंधदाणवासिअकवोलमूलं, देवरायकुंजरवरप्पमाणं, पिच्छइ, सजलघणविपुलजलहरगजिअगंभीरचारुघोसं, इभं, सुभं, सव्वलक्षणकयंबिअं वरोरु। १॥३३॥ व्याख्या-तएणमित्यादितो वरोरुमिति पर्यन्तम् , तत्र तएणं सा इत्यादि, ततःसा त्रिशला क्षत्रियाणी तत्प्रथमतया इभं खप्ने पश्यति । अत्र च प्रथममिभदर्शनं सामान्यवृत्तिमाश्रित्योक्तम् , अन्यथा ऋषभमाता प्रथमं वृषभं वीरजननी तु सिंहमपश्यदिति वृद्धाः । चतुईन्तं-चतुर्दन्तमुशलं तओअचउइंतमिति क्वचित् , तत्र ततश्चेति योजने तएणमित्यनेन पुनरुक्तता स्यात् अतस्ततौजसो-महाबलाश्चत्वारो दन्ता यस्येति व्याख्येयम् । ऊसिअगलिअ त्ति उच्छ्रितस्तथा गलितविपुलजलधरो-निर्जलविस्तीर्णमेघः, हारनिकरः-पुजीकृतहारः, क्षीरसागरः-प्रतीतः, शशाङ्ककिरणाः-चन्द्रमरीचयो, दकरजांसि-शीकरा, रजतमहाशैलो-वैताढ्यः, एतेषां द्वन्द्वे तद्वत्पाण्डुरतरो-अतिशयेन धवलस्तत उच्छ्रितश्चासी गलितविपुलजलधरक्षीरसागरशशाङ्ककिरणदकरजोरजतमहाशैलपाण्डुरतरश्चेति कर्मधारयः, यद्वा मुदं श्रितो मुच्छ्रितः-क्षुधादिवाधानाबाधितत्वेन शुभचेष्टः क्रोधानाविष्टो वा, तथा च ततौज(जा)श्चतुर्दन्तश्चासौ 8 मुच्छ्रितश्चासौ गलितविपुलजलधरक्षीरसागरशशांककिरणदकरजोरजतमहाशैलपाण्डुरतरश्चेति विशेषणकर्मधारयः । ऊसि ति सविभक्तिकपाठे तु उच्छ्रितमुच्चमिति भिन्नविशेषणं, समागय त्ति समागता मधुकरा-भ्रमरा यत्र तथा
**