________________
कल्पसूत्र०
किरणा
॥४५॥
SAGAR
सालिंगणवदिए त्ति सह आलिङ्गनवा -शरीरप्रमाणगण्डोपधानेन यत्तत्सालिङ्गनवर्तिकं तत्र उभयतः शिरोऽन्त-1 पादान्तयोः बिब्बोअणे त्ति उपधाने गण्डके यत्र तत्र अत एवोभयत उन्नते, मध्ये नतगम्भीरे नतं च तद्गम्भीर च महत्वान्नतगम्भीरं तत्र गंगापुलिनेत्यादि, गङ्गातटवालुकाभिरवदालेन पादादिन्यासेऽधोगमनेन सालिसए त्ति सदृशके अथवा प्राकृतत्वाद्विशेषणस्य परनिपातेऽवदालेन पादादिविन्यासेऽधोगमनेन गङ्गातटवालुकाभिः सदृशके, इत्यर्थः । उअविअ त्ति परिकम्मितं यत् क्षौम-अतसीमयं दुकूलं-वस्त्रं तस्य युगलापेक्षया यः पट्टः-एकः शाटकः तेन प्रतिच्छन्ने-आच्छादिते पडिच्छए त्ति पाठे तु स प्रतिच्छद-आच्छादनं यस्खेत्यादि सुविरइअरयत्ताणे त्ति सुष्टु |विरचितं शुचि वा रचितं रजस्वाणं-आच्छादनविशेषोपरिभोगावस्थायां यत्र, रक्तांशुकसंवृते-मशकगृहाभिधानरक्तवस्त्रावृते सुरम्ये-अतिरमणीये आइणगेत्यादि आजिनकं-स्वभावादतिसुकुमालश्चर्ममयो वस्त्रविशेषः रूतं-कोसपक्ष्म, बूरो-वनस्पतिविशेषः, नवनीतं-म्रक्षणं, तूलं-अर्कतूलं, एभिस्तुल्यः स्पर्शो यस्य तत्तथा तस्मिन् । सुगन्धवरकुसुमेत्यादि सुगन्धाभ्यां वरकुसुमचूर्णाभ्यां सत्कुसुमजातिवासयोगाभ्यां यः शयनस्य-शय्याया उपचारः-पूजा तेन कलिते पुत्वरत्तेत्यादि मध्यरात्रे ॥ ३२॥ तएणं सा तिसला खत्तिआणी तप्पढमयाए, चउदंतमूसिअगलिअविपुलजलहरहारनिकर
॥४५॥