________________
|त्रकर्मणि-चित्रकर्मसंयुक्त बाहिरओ त्ति बाह्यतः दूमिअत्ति धवलितं घृष्टं-कोमलपाषाणादिनाऽत एव मृष्टं-मसणं यत्तत्तथा तस्मिन् विचित्तउल्लोअचित्तिअतले त्ति विचित्रं-आश्चर्यावहमुल्लोचस्य-वितानस्य विचित्रं-विविधचित्रोपेतं तलं-अधोभागो यत्र तत्तथा तस्मिन् विचित्तउल्लोअचिल्लितले ति क्वचित्तत्र विचित्रो-विविधचित्रकलित उल्लोक-उपरिभागो यत्र, चिलिअं-दीप्यमानं तलं-अधोभागो यत्र, ततो विशेषणकर्मधारये विचित्रोलोकचिल्लि
अतलं तस्मिन्, बहुसमसुविभत्तभूमिभागेत्ति बहु-अत्यर्थे पञ्चवर्णमणिकुट्टिमतलाऽऽकलितत्वात्समो-अनिम्नोन्नतःसुवि* भक्तो-विहितविविधखस्तिको भूमिभागो यत्र तत्तथा तत्र पंचवन्नेत्यादि, पञ्चवर्णेन सरसेन सुरभिणा मुक्तेन-क्षि
सेन पुष्पपुञ्जलक्षणेन उपचारेण-पूजया कलिते कालागुरुपवरेत्यादि, कालागुरु च-कृष्णागुरु प्रवरकुन्दुरुकं च-चीडामिधो गन्धद्रव्यविशेषः तुरुष्कं च-सिल्हकं दह्यमानो धूपश्च-दशाङ्गादिगन्धद्रव्यसंयोगोद्भूत इति द्वन्द्वे तेषां सम्बन्धी यो मघमघायमानो-अतिशयगन्धवान् गन्ध उद्धृत-उद्भूतस्तेनाभिरामे सुगंधवरगंधिए त्ति सुष्ठ गन्धवराणां-प्रधानवासानां गन्धो यस्मिन्नस्ति तत्सुगन्धवरगन्धिकं तस्मिन् सुगंधवरगंधगंधिए ति क्वचित्तत्र सुगन्धाः-सुरभयो ये वरगन्धाः-प्रधानचूर्णास्तेषां गन्धो यत्र तत्तथा तत्र गंधवट्ठीभूए त्ति गन्धवर्त्तिः-गन्धद्रव्यगुटिका गन्धः कस्तुरिकेति गन्धवर्तिः-कस्तूरिका गुटिका वा तद्भते सौरभ्यातिशयात् तत्कल्प इत्यर्थः । तंसीत्यादि पूर्ववत्, शयनीये-तल्पे
१२०