________________
'व्याख्या-तणं कालेणमित्यादितो गयषसहगाहेति पर्यन्तम् , सत्र संहरणमपि च्यवनयदेव, नवरं संहियमाणः।
पुनर्न जानाति, तत्र ज्ञानागोचरत्वे संहरणस्यैकसामयिकत्वं हेतुरिति केचित् , केचित्पुनरान्तमौहर्तिकत्वेऽपि 18 छानस्थिकोपयोगापेक्षया संहरणकालस्य सूक्ष्मतरत्वमित्युभयथापि विचार्यमाणं न चेतश्चमत्करोति, यतस्तत्कर्तुरुप-18
योगविषयत्वेनैकसामयिकत्वं हरिनैगमेष्यपेक्षया विशिष्टज्ञानशक्तिमतो भगवतो ज्ञानागोचरत्वं चेत्युभयमपि विरुध्येत, तस्मादिव्यशक्तिवशात् अल्पेनैव कालेन तेन तथा संहरणं विहितं, यथा भगवतो न मनागपि बाधाऽभूदिसर्थवत्त्वेन साहरिजमाणे नो जाणइ त्ति विशेषणं भगवतः संहरणे सर्वथाऽनाबाधसंसूचकम् । अनावाधावस्थायां च सत्यपि ज्ञानगोचरत्वे तदगोचरत्वव्यपदेशः सुप्रतीत एव । यतः-'तहिं देवा वंतरिया, वरतरुणीगीअवाइअरवेणं । निचं सुहिया पमुइआ, गयं पि कालं न याणंति ॥१॥" त्ति । लोकेऽप्यतिसुखितो ब्रूते यन्मयाऽद्य यावद् गच्छन्
कालो नावगत इति । किञ्च कालस्य सूक्ष्मत्वमधिकृत्य ज्ञानागोचरत्वे सर्वथा ज्ञानाभावः सम्पद्यते, निराबाधत्वम-1 प्राधिकृत्य तु तथा वक्तव्ये कथञ्चिज्ज्ञानागोचरत्वमपि न विरुध्येत । तथा च "साहरिजमाणे वि जाणइ ति” ना|| चाराविरोधोऽपीत्येवमपि व्याख्यानं घटत इति विचार्य यथागमं चतुरैर्विचार्यमिति ॥ ३१॥
जं रयणि चणं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिट्रसगुत्ताए कुच्छिसि गब्भत्ताए साहरिए । तं रयणिं च णं सा तिसला