________________
कल्पसूत्र ० ॥ ४२ ॥
| निरन्तरशीत्रत्वगुणयोगादित्यपि केचित्, 'छे आए' इत्यपि कचित्तत्र छेकया - अपायपरिहारनिपुणया, दिव्यया| देवजनोचितया, देवगत्या व्यतित्रजन् मज्झं मज्झेणं ति मध्यभागे आलोके - दर्शनमात्रे ओसोवणिं ति अवखापिनींनिद्रां दलइ त्ति ददाति अव्यावाधमिति भगवतो विशेषणं तत्पीडापरिहारात्, अव्यात्राधेन - सुखेन संहर्तुरपि पीडाया अभावात्, यद्वाऽव्याबाधमन्याबाधेन - सुखं सुखेनेत्यर्थः, यतस्तथाविधकरव्यापारेण संस्पृश्य स्त्रीगर्भच्छविच्छेदकरणेनापि ईषदपि बाधां विनैव नखाग्रे रोमकूपे वा प्रवेशयितुं ततो निष्काशयितुं वा समर्थो हरिनैगमेषीति । उक्तं च भगवत्यां - "भंते ! हरिणेगमेसी सक्कदूए इत्थीगब्भं साहरमाणे गन्भाओ गन्धं साहरह १ १ गन्भाओ जोणिं साहरइ १ २ जोणीओ गन्धं साहरइ १ ३ जोणीओ जोणिं साहरइ ? ४ गोयमा ! नो गब्भाओ गन्धं साहरइ १, नो गन्भाओ जोणिं साहरइ २, परामुसिअ परामुसिअ अव्वाबाहं अद्याबाहेणं जोणीओ गन्धं साहरइ ३, नो जोणीओजोणिं साहरइ ४ । पहू णं भंते ! से इत्थीगब्भं नहसिरंसि वा रोमकूवंसि वा साहरितए वा नीहरितए वा ? हंता पहू, नो चेव णं तस्स गन्भस्स किंचि आवाहं विवाहं वा उप्पाइजा, छविच्छेअं पुण करिज्जत्ति” साहरइ त्ति संहरतियोनिद्वारेण निष्काश्य गर्भ गर्भाशयं प्रवेशयतीत्यर्थः । यस्या दिशो - अवधेः प्रादुर्भूतः प्रकट्यभूदागत इत्यर्थः ॥ २८ ॥
ताए उक्किट्ठाए तुरिआए चवलाए चंडाए जयणाए उद्दुआए सिग्घाए दिव्वाए देवगईए,
किरणाव०
॥ ४२ ॥